पृष्ठम्:श्रीपरात्रिंशिका.pdf/८७

पुटमेतत् सुपुष्टितम्
५७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

स्फुटयिष्यते च एतत् अविदूर एव । महेपरमानन्दरूपे पूर्वोक्ते, यदिदम् उक्तनयेन अ इति रूपं तदेव गुह्यम्, एतदेव च महागुह्यं-जगजननधाम, तथा उभयसमापत्त्या आनन्देन अगुह्यं सर्वचमत्कारमयं, स्व! आत्मन्नेव, हे प्रभो एवंविधवैचित्र्यकारितया प्रभवनशील, आमन्त्रणमेतत्, तच्च आमन्त्र्यस्य आमन्त्रक प्रति तादात्म्यमाभिमुख्यं प्रातिपदिकार्थात् अ[१]धिकार्थदायि । यथोक्तम् ।

'संवोधनाधिकः प्रातिपदिकार्थः।'

इति । निर्णीतं च एतत् मयैव श्रीपूर्वपश्चिकायाम् । एतत् कथय-परावाग्रूपतया अविभक्तं स्थितमपि पश्यन्तीभुवि वाक्यप्रवन्धक्रमासूत्रणेन योजय । यथोक्तं प्राक्


पं० २ ग० पु० परमानन्दमय इति पाठः ॥

पं० ३ ग० पु० अधिकताधायि इति पाठः ॥


  1. 'आमन्त्रणे च' इति सूत्रे प्रातिपदिकार्थातिरिक्त आमन्त्रणे प्रथमा इति वृत्तिकारः।