पृष्ठम्:श्रीपरात्रिंशिका.pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
परात्रिंशिका

परात्रिंशिका

'गुरुशिष्यपदे स्थित्वा"............।'

इत्यादि । पराभट्टारिकायाश्च पश्यन्त्यादितादात्म्यं निर्णीतं प्रागेव । तथा मम इत्यस्य प्रत्यगात्मसंबन्धित्वस्य इदंभावस्य यत् गुह्यं महअ इत्युक्तम् अहमिति । तथा हि म[१]म इदं भासते इति यत् भासनं, तस्य विमर्शः पुनरपि अहंभावैकसारः, स पुनः अहंभावो भावप्रत्युपसंहरणमुखेन इति मह अ इत्येतद्रूप एव यथोक्तं प्राक् । यदुक्तम्

'इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ।।'

इति। अन्यत्रापि

'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्तिरात्मेच भासते न त्विदन्तया ॥'

      (ई०प्र०अ०१आ०५श्लो०२०)


  1. 'ममेदं भासते' इति इदंपदस्य स्वात्मनि असत्कल्पत्वात् संहारक्रमेण मदीयं स्फुरणं स्पन्दनरूपतामाविष्टम् इत्यनेन अहंपरामशैकसार एवं व्यपदेश्यः, न तु अत्र कश्चित् सृष्टिक्रमो नापि संहारक्रम इत्यबधार्ये स्वयमेव सूक्ष्मदर्शिभिः ।