पृष्ठम्:श्रीपरात्रिंशिका.pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

इति । तदुक्तं श्रीसोमानन्दपादैः निजविवृतौ।

'अबीजं शुद्धशिवरूपम्'

इत्यादि । तदेव अस्माभिः विपश्चितमिति । तथा स्वमम-सुष्टु अविद्यमानं मम इति, यस्य अहन्ताभरैकरूपत्वात् विश्वं न किंचित् यस्य व्यतिरिक्तनिर्देशप्राणषष्ट्यर्थयोगि भवति । शास्त्रान्तरदीक्षितानां विज्ञानाकलानां प्रलयकेवलिनां च यद्यपि ममेति व्यतिरिक्तं नास्ति तथापि यत् भेदयोग्यतावसाना स्यादेव प्रबोधसमये तद्विकासात् अहंभावरूढिः तदपाकृत्यै सुष्टुशब्दार्थे सुः । यदुक्तं मयैव स्तोत्रे

'यन्न किंचन ममेति दीनतां
 प्रामुवन्ति जडजन्तवोऽनिशम् ।
[१]न्न किंचन ममास्मि सर्वमि-
 त्युद्धरां धुरमुपेयिवानहम् ॥'


पं० ८ ख० ग० पु० व्यतिरिक्ततास्ति इति पाठः ।

पं० ६ क० पु० तद्भेदयोग्येति पाठः ।

पं० १० प० पु० भावारूदा इति पाठः ।


  1. तन्नेति तयां निषेधरूपम् अत आह सर्वमस्मीति ।