पृष्ठम्:श्रीपरात्रिंशिका.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
परात्रिंशिका

इति । शोभनेन द्वैतकलङ्काङ्कनाकालुष्यलेशशून्येन अमेन परमार्थोपदेशाद्वयात्मना ज्ञानेन, मानम् अवबोधो यस्य स्वप्रकाशैकरूपत्वात् । अमतीति अमा, अ इति मा, यत्र अविद्यमानं मा मानं निषेधश्च यत्र, नित्योदित त्वात् संहारश्च यत्र नास्ति, सा भगवती अमा इति उच्यते । मा शोभना सततोदिता यत्र मायां प्रमाणप्रमेयव्यवहृतो सा तादृशी मा यस्य इति बहुव्रीह्यन्तरो वहुव्रीहिः। परमेश्वरो हि प्रमाणादिव्यवहारेऽपि परशक्तिमय एव सर्वथा अद्वैतरूपत्वात् तस्य आमन्त्रणमास्मन एव ॥१॥

 इदमेव सार्धश्लोकनिरूपितानन्तप्रश्नतात्पर्यसंग्रहेण एतदुक्तं भवति इति निर्णेतुं निरूप्यते


पं० १ ख० पु० कलङ्काकारति पाठः ।

पं० ३ घ० पु० मा मानमिति पाठः।

पं० ८ क० पु० मायायामिति पाठः ।

पं० ख० पु० ब्रीह्यन्त इति पाठः ।

पं० १३ ख० पु० प्रश्नार्थतात्पर्येति पाठः।