पृष्ठम्:श्रीपरात्रिंशिका.pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

हृदयस्था तु या शक्तिः
 कौलिकी कुलनायिका ।
तां मे कथय देवेश
 येन तृप्तिं लभाम्यहम् ॥२॥

 सर्वस्य [१]नीलसुखादेः देहप्राणबुद्ध्यादेश्च परं प्रतिष्ठास्थानं संविदात्म हृत, तस्यैव निजस्वातन्त्र्यकल्पितभेदा अया-विचित्राणि घटादिज्ञानानि, तत्स्था इयं स्फुरणमयी शक्तिः, कुलस्य नायिका शरीरप्राणसुखादेः स्फुरत्तादायिनी, ब्राह्म्यादिदेवताचक्रस्य वीर्यभूता, निखिलाक्षनाडीचक्रस्य मध्य-मध्यमरूपा जननस्थानकर्णिकालिङ्गात्मा अस्ति । तत्रैव च कुले भवा कुलरूपा कौलिकी, यद्वा कुले भवम-


पं० ७ ख० पु० यया इति पाठः ।

पं० ८ ख० पु० येयं स्फुरणामयीति पाठः ।

पं० १२ ग० पु० तत्रैव अकुलं कौलमिति पाठः ।


  1. नीलेति बाह्यान्तरग्राह्यस्य, देहेति ग्राहकस्य, उभयोः प्रतिष्ठास्थानं संविदित्यर्थः ।