पृष्ठम्:श्रीपरात्रिंशिका.pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
परात्रिंशिका

कुलात्म कौलं तत् यस्यामन्तः तादात्म्येन अस्ति सा कौलिकी, कुलं हि अकुलप्रकाशरूढमेव तथा भवति । यदुक्तम्

'अपि त्वात्मबलस्पर्शात् ।' (स्प०१नि०८का०उ.)

इति । तथा

'तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ।
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥'
    (स्प०२नि०१०का०)

इति । देवानां ब्रह्मविष्णुरुद्रादीनाम् ईशस्य आमन्त्रणं । तन्मे कथय इत्यपि पठन्ति श्रीसोमानन्दपादाः, व्याचक्षते च तत् तस्मात् इति । यद्वा तत् कथय येन तृप्तिं परमानन्दमयीं लभे परमाद्वयनिर्वृतिस्वातन्त्र्यरसाभवामि इति समन्वयः । व्रजामि इत्यपि पाठः । अहमित्यनेन सर्वप्रमातृजीवनरूपमेव सततं परामृश्यते, तत् च एवमभिहितस्वरूपोपदेशेन प्रत्यभिज्ञाय निजमीश्वररूपं परिपूर्णभावात्मिकां तृप्तिं विन्दति इति प्राक् प्र-