पृष्ठम्:श्रीपरात्रिंशिका.pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

कटितमेव । तदुक्तं सोमानन्दपादैः स्वविवृतौ

'हृदि अयो गमनं ज्ञानम्'

इत्यादि ।

इति शिवरसं पातुं येषां पिपासति मानसं
 सततमशिवध्वंसे सत्तां शिवेन निवेशिताम् ।
हृदयगगनग्रन्थिं तेषां विदारयितुं हठाद्
 अभिनव इमां प्रश्नव्याख्यां व्यधात्त्रिकतत्त्वगाम् ॥

तदत्र प्रश्नसर्वस्वे

  श्रीभैरव उवाच

 व्याख्यातं प्रागेव एतत् किं पुनरुक्ततापादनेन, भैरवो [१]भरणात्मको महामन्त्ररवात्मकश्च, केवलमत्र [२]शक्तिमत्प्राधान्यं संहाररूपेण महअ इत्येवं रूपम् इत्युक्तं प्राक्, स्फु-


  1. भरणं विश्वस्य धारणं स्वात्मनि तथा स्वात्मभित्तिलग्नत्वेन पोषणं च यतोऽनेनैव अन्यत्रोक्तं 'विश्व बिभर्ति धारणपोषणयोगेन' इति । तथा 'तेन चास्य धारणं पोषणं च' इति विश्वमयत्वेनास्य सर्वत्र स्फुरणात् विश्वं संवित्प्रकाशलग्नं चैतन्यव्यक्तिस्थानमित्याचार्याभिनवगुतपादा अन्यत्र । तथा स्वस्मिन्नेव स्वात्मनैव विमर्शात्मकश्चेति ।
  2. प्रसरे पश्यन्त्यादिरूपतया शक्तिप्राधान्यं, संहारे पुनः शक्तिसंकोचेन शक्तिमत्प्राधान्यं सुबोधमेवेति ।