पृष्ठम्:श्रीपरात्रिंशिका.pdf/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
परात्रिंशिका

टीभविष्यति च अग्रत एव । तत् इयान् अत्र तात्पर्यार्थः ।

[१]रा भगवती संवित्प्रसरन्ती स्वरूपतः ।
परेच्छाशक्तिरित्युक्ता भैरवस्याविभेदिनी ॥
तस्याः प्रसरधर्मत्वज्ञानशक्त्यादिरूपता ।
परापरापरारूपपश्यन्त्या[२]दिवपुर्भृतिः ।।
तदेवं प्रसराकारस्वरूपपरिमर्शनम् ।
प्रश्न इत्युच्यते देवी तन्मयप्रश्नकारिणी ॥
[३]स्य प्रसररूपस्य परामर्शनमेव यत् ।
तदेव परमं प्रोक्तं तन्प्रश्नोत्तररूपकम् ॥
[४]देवापरसंवित्तेरारभ्यान्तस्तरां पुनः ।
परसंविद्धनानन्दसंहारकरणं मुहुः ॥


पं० ५ ख० पु० धर्मित्वज्ञानेति पाठः

पं० ७ ग० पु० प्रमृताकारं स्वरूपेति पाठः ।


  1. परेति अनुत्तरस्वरूपा निराकाङ्क्षा पूर्णेत्यर्थः । स्वरूपसत्तया प्रसरन्ती अभ्युपगमरूपत्वादिच्छाशक्तिः सापि परानुत्तररूपैवेत्यर्थः तत्रैव हेतुमाह 'भैरवस्याविभेदिनी इति । तत्रेत्थं क्रम:-औन्मुख्ये इच्छा सा परैव, ज्ञानशक्त्यौन्मुख्ये पश्यन्ती, स्थितौ तस्याः क्रियाशक्त्यौन्मुख्ये मध्यमा, स्थितौ वैखरीति ।
  2. आदिना मध्यमावैखरीग्रहणम् ।
  3. प्रश्नसतत्त्वमुक्त्वा परस्परं प्रश्नोत्तरसतत्त्वमाह तस्येत्यादि ।
  4. व्यस्ततयोत्तरस्वरूपमाह तदेवापरेत्यादि ।