पृष्ठम्:श्रीपरात्रिंशिका.pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

अन्तर्भावितनिःशेषप्रसरं भैरवं वपुः ।
प्रतिवक्तृस्वरूपेण सर्वदैव विजृम्भते ॥
एतौ प्रसरसंहारावकालकलितौ यतः।
तदेकरूपमेवेदं तत्त्वं प्रश्नोत्तरात्मकम् ॥
तदेवं परसंबन्धमनुत्तरतयान्वितम् ।
षडर्धसारसर्वस्वं [१]गुरवः प्राङ्न्यरूपयन् ॥
 पफिलउ फुरइ फुरण
  अवि आरिणा होइपरावर
 अवरविहइण
  देवि विसरिम इऊ उ ।
 सासच्चिअ परिसरि
  सेइसऊअउदेउ
 विलोमइ भैरव ऊअउ
  उत्तरु एहु अणुतुल ॥

 

शृणु देवि महाभागे
  उत्तरस्याप्यनुत्तरम् ॥ ३ ॥
 कौलिकोऽयं विधिर्देवि
  मम हृद्व्योम्न्यवस्थितः ।
 कथयामि सुरेशानि
  सद्यः कौलिकसिद्धिदम् ॥ ४ ॥


पं० ५ ख० पु० तदेव परेति पाठः ।


  1. गुरव इति श्रीशंभुनाथादयः ।