पृष्ठम्:श्रीपरात्रिंशिका.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
परात्रिंशिका

 देवि इति प्राग्वत् । महान् भागो यस्याः, या भज्यमाना उक्तवक्ष्यमाणोपदेशानुशीलनेन सेव्यमाना पारमेश्वर्याख्यमहाबलदा भवति इति ।महत्-परममहद्रूपतया प्रसिद्धोऽनाश्रितशिवरूपः स यस्याः भागः अंशः, पारमेश्वरी हि शक्तिः [१]अनन्तषट्त्रिंशदादितत्त्वगर्भिणी । महान्-बुद्ध्यादिः तत्त्वविशेषो भागो विभागकलापेक्षि रूपं यस्याः, पारमेश्वरी हि संविदेकघनशक्तिः स्वस्वातन्त्र्योपकल्पितभिन्नज्ञेयकार्यप्रतिष्ठापदत्वे बुद्धिरित्यु-


  1. अयमत्राभिप्रायः, यदुक्तम्

    'सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः ।
    आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥
    नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् ।
    शक्तितत्त्वे लयं याति गृहीत्वा सचराचरम् ॥
    शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ।
    ततस्तेन क्रमेणैव लीयते साप्यनाश्रिते ॥
    सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे ।
    सा शक्तिः साम्यसंज्ञा स्यान्नित्याकल्पा कलात्मिका ॥
    यत्तत्सामनसं रूपं सत्साम्यं मा विश्वगम् ।'

    इति ।