पृष्ठम्:श्रीपरात्रिंशिका.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
परात्रिंशिका

प्रत्युत तान् व्यवच्छिन्दन् उपजायते इति । सुखवृत्तिबुद्धेः धर्मैश्वर्यादिरूपत्वात् सत्त्वात्मको गुणनिःष्यन्दः इति गीयते । यदि तु तत्रापि अन्तस्तमाम् अनुप्रविश्यते तत् तद्द्वारेणैव तन्मूलवर्तिनि परमानन्दधाम्नि भवेदेव सततमुदयः, अत एव 'महस्य' सर्वतोऽखण्डितपरिपूर्णनिरर्गलनिरपेक्षस्वातन्त्र्यजगदानन्दमयस्य आ-ईषत् [१]भागाः सुखलक्ष-


पं० २ ख० पु० सुखवर्तिबुद्धेरिति, क० पु० धर्माधर्मेश्वर्येति च पाठः ।


  1. इह खलु 'अशून्यं शून्यम्' इत्युक्त्या केवलानश्चये भावभेदाकलुषिते संविदात्मनि सत्त्वगुणवृत्तौ विश्रान्तिमासाद्य स्वात्मानमेव केवलतया साक्षात्कुर्वन् निजानन्दविश्रान्तस्तिष्ठेत् । १ । ततः 'प्राक्संवित्प्राणे परिणता' इति नीत्या प्रमाणात्मन: प्राणस्य हृदयाद्द्वादशान्तं रेचकक्रमेण उदये कथंचिद्धहिरौन्मुख्यात् प्रमातृसंमतात् निजादानन्दान्निष्क्रान्तो निरानन्ददशास्थस्तिष्ठेत् । २ । ततोऽपि अपानात्मनि प्रमेये पुनरुदयति परेण प्रमेयेण कृतमानन्दं विभावयेत् यतस्तत्र प्रमेयोदयदशायामपि परानन्दस्तिष्ठेत् । ३ । ततोऽपि हृदये क्षणं विश्रम्य नीलसुखादिप्रतिभासमानमेयानामन्योन्यमेलनात्मना संघट्टेन ब्रह्मानन्दनिष्ठस्तिष्ठेत् । ४ । ततोऽपि मानमेयौघग्रासतत्परः संघट्टनपरायणः प्रमातृसंमतमानन्दं विभावयेत्- स्वात्ममात्रविश्रान्तिरूपतया विमृशेत् महानन्दमयस्तिष्ठेत् । ५ । ततोऽपि एतत्सर्वानुसंधातृरूपस्वात्मप्रकाशरूपे जगदानन्दे तिष्ठेत् । ६ । यदुक्तं तन्त्रालोके जगदानन्दस्वरूपम्-

    'यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरेत् ।
    यदनाहृतसंवित्ति परमामृतबृंहितम् ॥
    यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ।
    तदेतज्जगदानन्दमस्मभ्यं शंभुरूचिवान् ॥