पृष्ठम्:श्रीपरात्रिंशिका.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

णा अंशा यतः, यत् यत् किल सुखं तत् महानन्दनिर्वृतिपरमधाम्नि विसर्गशक्तौ अनुप्रवेशात् तथाऽचेत्यमानतया कियद्रूपतां प्राप्तम् । तदुक्तं भट्टनारायणेन

'त्रै[१]लोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते ।
स विन्दुर्यस्य तं वन्दे देवमानन्दसागरम् ॥(६१ श्लो०)

इति प्राङ्नयेन यदुक्तं 'महअ' इति रूपं तदेव भजनीयं यस्याः, परमेश्वरस्य हि स्वचमत्कारबृंहितं यत् 'अहम्' इति तदेव शाक्तं वपुः, तदेव च पराभट्टारिकारूपमिति उच्यते, अत एव सैव च परमेश्वरी सर्वं शृणोति- श्रवणाख्यया सत्तया तिष्ठन्ती श्रवणसंपुटस्फुटक्रमिकस्वस्पन्दमयवर्णराशिनिष्ठमैकात्म्यापादनरूपसंकलनानुसंधानाख्यं स्वातन्त्र्यं, तेन हि विना कलकललीनशब्दविशेषं शृण्वन्नपि- न शृणोमि


पं० ७ ख० पु० तदेव रूपमिति पाठः ।

पं० १३ क० पु० संकल्पनानुसंधानेति पाठः ।


  1. भवाभवातिभवरूपे ।