पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०५

पुटमेतत् सुपुष्टितम्
४०
श्रीपाञ्चरात्ररक्षा

षिताच्च [१] व्यतिरिक्तं सम्भवदप्रामाण्यमयोगिभिर्मनुजमात्रैः प्रणीतं पौरुषं वाक्यं प्रतिपाद्य, पुनर्दिव्य-सात्त्विक-राजस-तामससंज्ञितानि प्रमाणभूतान्येव

संहितानां दिव्यसा
त्त्विकादिभेदेन
विभागः ।

शास्त्राणि संहिताविशेषनियमेनापि विभज्य, सात्त्वत-पौष्कर-जयाख्यादीनि शास्त्राणि दिव्यानि, ईश्वर-भारद्वाज-सौमन्तव-पारमेश्वर-वैहांयस-चित्रशिखण्डिसंहिताजयोत्तरादीनि सात्त्विकानि, सनत्कुमार-पद्मोद्भव [२] -शातातप-तेजोद्रविण-मायावैभविकादीनि राजसानि, पञ्चप्रश्न-शुकप्रश्न-तत्त्वसागरादीनि तामसानि इति संहिताविभागनिर्देशानन्तरमुच्यते-

अपकृष्टशास्त्रस्थाने
उत्कृष्टशास्त्रपरिग्रह
वचनस्य स्वयंव्यक्त
क्षेत्रपरत्वम् ।

"तामसेन तु मार्गेण पूजाद्यं यत्र वर्तते ।
तत्रापि राजसेनैव पूजाद्यं सिद्धिदं भवेत् ॥
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः ।
तत्रापि सात्त्विकेनैव पूजाद्यं शुभदं सदा ॥
सात्त्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम् [३]
तत्र राजसमार्गेण न कुर्यात् पूजनादकम् ॥
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम् ।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥
विविधानां राजसानामन्योन्यं स्यान्न सङ्करः ॥" इति ।

  1. व्यक्तीभवदप्रामाण्य-ख, ग
  2. पाद्मोद्भव-क, ख, च
  3. नित्यशः- क, ख, ग, च, झ