पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११०

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

नित्यानुष्ठानस्थापनाख्यः

द्वितीयोऽधिकारः

अथादौ समुपक्षिप्तमच्छिद्रं स्थाप्यतेऽधुना ।
स्वयंप्रयोजनं नित्यं स्वामिसेवनमञ्जसा ॥
सामान्यविशेषात्मा चर्येयं हृदयङ्गमा ।
ससूत्रसुमनस्स्तोमा मालेवामोदिनी विभोः ॥

 इह तावदेकैक [१]. स्मिन्नहोरात्रे कालपञ्चकविभागेन अभिगमनोपादानेज्या-स्वाध्याय-योगरूपभगवत्सेवनं स्ववर्णाश्रम-जाति-गुण-निमित्तादि -निमित्तादि [२] यतधर्मसचिवं भगवद्धर्मनिष्ठानां सर्वेषां समानम् ।

अभिगमनादिना
भगवत्सेवनं सर्वेषां
समानम् ।

तच्च संहिताभेदेषु चोदनाख्याविशेषेऽपि सूत्रभेदेषु समानचोदनाख्यचत्वारिंशत्संस्कारादिवल्लेशतो भिन्नरूपं प्रतिपाद्यते । तत्र रहस्याम्नायविदामेवायं धर्म [३] इति अविदितसात्वतधर्माणामाकस्मिको भ्रमः । ते तु स्वशाखोक्तप्रकारेण पाञ्चकालिकधर्ममनुतिष्ठन्ति । इतरे च यथास्वं तत्तत्संहितोक्तप्रक्रिययेति व्यवस्था । वर्गद्वयेऽप्यधिकारिविशेषमात्रेणैव हि भेदोऽनुशिष्यते । यथोक्तं पाद्मे ।

  1. एकस्मित्- क, ख, च, झ
  2. जातिनिमित्तादि-क, ख, ग, झ.
  3. अयं निजधर्म:–ज