पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११३

पुटमेतत् सुपुष्टितम्
४८
श्रीपाञ्चरात्ररक्षा

अभिगच्छेज्जगद्योनि तच्चाभिगमनं स्मृतम् ।
नत पुष्प-फलादीनामुत्थायार्जनमाचरेत् ॥
भगवद्यागनिष्पत्तिकारण प्रहर[१] परम् ।
तदुपादानसंज्ञं वै कर्म कालपदाश्रितम् ॥
ततोऽष्टाङ्गेन यागेन पूजयेत् परमेश्वरम् ।
साधिक प्रहर विप्र इज्याकालस्तु स स्मृत ॥
श्रवण चिन्तन व्याख्या तत[२] पाठसमन्विता ।
स्वाध्यायसंज्ञं तद्विद्धि कालाश मुनिसत्तम ॥
दिनावसाने सम्प्राप्ते पूजा कृत्वा समभ्यसेत् ।
योग निशावसाने च विश्रमैरन्तरीकृतम् ।
पञ्चमो योगसंज्ञोऽसौ कालाशो ब्रह्मसिद्धिद ॥

नारद --

श्रुतो मयाखिल पूर्व भगवद्याग उत्तम[३]
तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः ।

यागस्य
अष्टावङ्गानि ।

श्रीभगवानुवाच --

अन्तःकरणयागादि यावदात्मनिवेदनम् ।
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत्[४]

  1. प्रहर - क, ख, ग, च, ज, झ
  2. तप - क, ख, ग, च, झ
  3. उत्तर- क, ख, ग, ड, च, छ, झ
  4. तच्चाभिगमन भवेत- क, ख, ग, च, झ