इद तावत् आप्रबोधात्[१] आनिशान्तमनुष्ठीयमानेषु कर्मसु[२] न विस्मर्तव्यम् । समयाचारनियमाध्यायश्रीवैष्णवधर्मशास्त्रादिकथित परमैकान्तिना विशेषकर्तव्यं च सर्वे यथावदधिगन्तव्यम् ।[३] सर्वेषु च कर्मारम्भेषु भगवच्छास्त्राद्युक्ततत्तन्मन्त्र, “भगवानेव'इत्यादिकं भाष्यकारनित्योक्त च वाक्यं पठितव्यम् । अन्ते च सर्व स्वनियाम्येत्यादिक्रमेण समन्त्रक भगवति समर्पणीयम् । [४]न चैतदखिलमपि उपासनोपायाधिकार्यन्तरमात्रविषयमिति भ्रमितव्यम्[५] । तथा सति तत्सहपठितगुरुभजन-निर्माल्यभक्षणनिषेधादेरपि तावन्मात्रविषयकत्वप्रसङ्गेनालेपकवादावतारप्रसङ्गात् । प्रपञ्चित चैतत् पूर्वस्मिन्नधिकारे, निक्षेपरक्षादिषु च ।
तत्र भाष्यकागेक्तनित्यानुष्ठाननिष्ठस्य ब्राह्ममुहूर्तादिप्राप्तौ यत्कर्तव्य तत्तावत् तच्छिष्यप्रशिष्यग्रन्थ तन्मूलभूतसहिताद्यनुसारेण सगृह्यते । पूर्वमेव
बाह्यमुहूर्तकर्तव्याना
उपक्रम ।
यथाकाल विश्रान्त्यै निद्रा निर्विश्य प्राप्ते यामिन्या पश्चिमे यामे सावधानेन निद्रा परित्याज्या । 'याम द्वय शयानस्तु', 'युक्तस्वप्नावबोधस्य' इत्यादिषु स्मरणात् । येषु च[६] योगग्रन्थेषु कृत्स्नाया रात्रौ निश्छिद्रयोगार्थं स्वप्न समयसभावितेन्द्रियक्षोभादिपरिहाराय च जागर प्रतिपाद्यते, ते[७] विश्रमनिरपेक्षयोगदशापन्नपूर्णारोग्यपुरुषविशेषविषया [८] । तत्तत्पुरुषशक्त्यनुसारेणैव हि नित्य-नैमित्तिक-काम्यविषयाणा सर्वेषा शास्राणा प्रवृत्ति । अत एव हि