पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५२

पुटमेतत् सुपुष्टितम्
८७
तृतीयोऽधिकार

इति समनन्तरकर्तव्य कथं सगच्छते । न हि स्वरूपैक्यभावनाया हृदि पुनर्नारायणध्यानमिति किचित् सात् । न च शेषवृत्तौ प्रवर्तमानस्य स्वरूपैक्यभावनं जाघटीति । अतो दृष्टिविधिपक्षोऽत्र स्वीकार्य । यद्वा गत्यन्तरे संभवति दृष्टिविधिविवक्षा च न युक्ता । अतस्तच्छरीरतया तादधीन्यादिभि सर्वानुवृत्तस्तद्व्यपदेश । तदभिप्रायेण च स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकार ।

 योगे च [] भिन्नलक्षणयो परमात्म-प्रत्यगात्मनो सबन्धानुसन्धानमेवेति

योगस्वरूपे
शाण्डिल्यस्मृति
श्रीकृष्णमुनिश्च ।

शाण्डिल्यस्मृतिवाक्येन स्थापित पूर्वाधिकारे । उक्तं च विप्रकीर्ण सात्त्वते नित्यं सगृह्यान्ते श्रीकृष्ण मुनिभि स्वरूपैक्यादिबुद्धेरवैदिकत्वम् ----

"चेतनस्त्वेक एवेति मतिर्या केवला क्रिया ।
फलतीति मतिम्ते द्वे वेदाप्रामाण्यबुद्धिजे ।
स एन प्रीत प्रीणाति ब्राह्मणस्यानुगे न ते" ॥ इति ।

 एव यथावदनुष्ठितयोगस्य श्रान्तिसभावनाया ब्राह्ममुहूर्तात् पुनर्वि-

योगमध्ये श्रान्तौ
विश्रमाभ्यनुज्ञा ।

श्रमोऽनुज्ञाप्यते--


"ततः श्रमजय कुर्यात्त्यक्त्वा ध्यानासने क्रमात् ।
समासीत शयानश्च समास्ते शयनस्थश्च-घ . [] कालं रात्रिक्षयावधि" ॥ इति ।

ब्राह्ममुहूर्ते विशेष-
कर्तव्यानि, हरि-
कीर्तन च ।

 तत्र [] ब्राह्ममुहूर्तप्रभृतिविशेषकर्तव्ये [] दिङ्मात्र दर्शितम्

  1. योगे च इत्येव सर्वत्र पाठ । योगश्च इति चेत् साधीयान् । दृश्यता च शाण्डिल्यस्मृतेस्पात 'तत्सबन्धानुसन्धानमिति योग प्रकीर्तित’ इति वचन पूर्वाधिकारे (५९-पुटे)
  2. समासे शयतस्थश्च ड च, छ
  3. अत्र- क, ख, ग, च, झ कर्तव्य- क. झ
  4. कर्तव्य --- क, झ