मान्त्र[१]-मानसात्मध्यान पञ्चाङ्गपुरुषान्तरकृतस्पर्शपूर्वका[२]वगाहनरूपेषु स्नानान्तरेषु तत्कालसम्भावितम् । तत्रापि स्वशक्यं कुर्यात् । आह चैवं क्रतुः-
"प्राक्छौचं स्नानमादेयं ब्राह्मं वा स्नानमिष्यते । |
अत्र यथाधिकारमिति विवक्षा । एवं चोक्तं पारमेश्वरे–
"विना विविधसम्पर्कैः पञ्चाङ्गस्नानमाचरेत् । |
शीतोदकस्नानासमर्थस्य उष्णोदकस्नानम् । तच्चानुपहतस्याप्रतिषिद्धेषु दिवसेष्वेव । एवं शक्त्याद्यनुगुणं स्नानं कुर्यात् । बलानुरूपं च स्नानं प्रत्येकं समुदितं वा सञ्जगृहु -
"दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः । |
अन्यथा त्वकर्मण्यो भवति; ‘स्नानमूलाः क्रियाः सर्वाः' इति विधानात् । अत्रिश्च स्नान-जप-होम-दानानां नित्यत्वमाह-
"अस्नाताशी मलं भुङ्क्ते अजपः पूयशोणितम् । |