पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८२

पुटमेतत् सुपुष्टितम्
११७
तृतीयोऽधिकारः

"आपीठान्मौलिपर्यन्तं पश्यत पुरुषोत्तमम् ।
पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥" इत्यादि च ।

स्तुति-सङ्कीर्तनादेश्च प्रभावः--

“एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥"

"कलौ सङ्कीर्त्य केशवम् ।"

"कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्ध: परं व्रजेत् ॥"

इत्यादिषु ग्राह्यः ।

 अत्र भगवत्प्रसादलब्धं तुलसी-पादोदकादिकं यत्किञ्चिदपि

भगवत्प्रसाद-
स्वीकारप्रक्रिया ।

प्रणिपातपुरःसर हर्षोत्फुल्लकपोलशिरसा सम्भाव्य यथार्हमुपयुञ्जीत । अत्र "प्रतापभूपरचितस्तथाचमननिर्णय" इत्यादौ शिष्टा पठन्ति ----

"आम्रेक्षुदण्ड[]ताम्बूलचर्वणे सोमपानके ।
विष्ण्वङ्घ्रितोयपाने च नाद्यन्ताचमनं स्मृतम् ॥" इति ।


तन्मूलभूता चाथर्वणश्रुतिर्नारायणमुनिभिः संगृहीता । “भगवान् पवित्र वासुदेव पवित्रं तत्पादौ पवित्र[] तत्पादोदकं पवित्र न तत्पान आचमनम्, यथा हि सोमे" इति । एवं भगवत्सेवयात्मानं कृतार्थं मन्यमानो भगवदनुज्ञया क्वचिन्निभृतमुपविश्य जपादिभिरुपासीत ।

  1. आम्रेक्षुखण्ड-घ,ड,छ.
  2. तत्पादौ पवित्र-क,झ कोशयोः