पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८५

पुटमेतत् सुपुष्टितम्
१२०
श्रीपाञ्चरात्ररक्षा

अनुगम्य यथा प्रेतमिच्छया यस्तु मानवः ॥
आराधितुमथेच्छेन्मां स व्रजत्यधमां गतिम् ।
बलिभुग्योनिता यान्ति जन्मानि भुवि भूधरे ॥
भरणं तु तथा कृत्वा मृतकस्य वसुन्धरे ।
मन्दिरं न प्रवेष्टव्यं प्रविष्टस्य फलं शुणु ॥
चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च ।
भविष्यति वरारोहे व्याध क्रूरोऽथ निष्ठुरः ॥
भुक्त्वा श्राद्ध महाभागे मनुजो मामथार्चयेत् ।
चटकत्वमनुप्राप्य ततो गोधावपुर्गत ॥
छायामाक्रम्य यो मोहाद्विमानस्य वसुन्धरे ।
प्रदक्षिणमकुर्वस्तु यस्तिष्ठेन्मतिपूर्वकम् ॥
तिष्ठेत् स कानने शून्ये कण्टकैर्बहुभिर्वृतः ।
फलपुष्पविहीनश्च अरण्ये शून्यवृक्षताम् ॥
समीपे मन्दिरस्यापि शकृन्मूत्रं करोति यः ।
स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम् ॥
ततोऽपि मनुजो मुक्तो ग्रामसूकरजातिताम् ।
ग्रामे जन्मशतं सुभ्रु विष्ठाभुक् सूकरस्तथा ॥
अनिबद्धप्रलापान् ये कुर्वते मम सन्निधौ ।
तेऽपि तित्तिरिता गत्वा जायन्ते जन्मपञ्चकम् ॥
आरोपित प्रदीपं ये नयन्त्यन्यत्र मन्दिरात् ।
अन्धास्तेऽपि भविष्यन्ति जन्मानि नव पञ्च च ॥
कथाया कथ्यमानाया मन्दिरे मे वरानने ।
अनादृत्य च ये यान्ति तेषां पापफलं श्रृणु ॥