पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१०

पुटमेतत् सुपुष्टितम्
१४५
तृतीयोऽधिकार

चतुर्दशापराध तु न क्षमामि वसुन्धरे ।
अन्धकारे तु मा देवि य स्पृशेत(तु) कदाचन ॥
पञ्चदशापराध तं कल्पयामि वसुन्धरे ।
यस्तु कृष्णेन वस्त्रेण मम कर्माणि कारयेत् ॥
पोडशा चापराध त कल्पयामि न संशय ।
वास समवधून्वन् वै यस्तु मय्युपकल्पयेत् ॥
सप्तदशापराध तं कल्पयामि वसुन्धरे ।
श्वान स्पृष्ट्वा ममान्यद्वा यो दद्यान्मम माधवि ॥
अष्टादशापराधं त कल्पयामि न सशय ।
वाराहं यस्तु मास वै भक्षयित्वा प्रपद्यते ॥
एकोनविशापराध प्रतिजानामि माधवि ।
जालपाद[१] समश्नन् वै यस्तु मामुपसर्पति ॥
अपराध विशतिम[२] कल्पयामि वसुन्धरे ।
स्पृष्ट्वा वै दीपक यस्तु मोहात् स्पृशति माधवि ॥
एकविशापराध तं कल्पयामि वसुन्धरे ।
श्मशान यस्तु वै गत्वा मम चैवाभिगच्छति ॥
द्वाविशमपराध तु तमह चोपकल्पये ।
पिण्याकं भक्षयित्वा तु मम चैवोपचक्रमेत् [३]
त्रयोविशापराध त नरो मम च कल्पयेत् ।
मज्जनानवजानन् यो मा तु पश्यति माधवि ॥
चतुर्विशापराधं त कल्पयामि वसुन्धरे |
एकहस्तप्रणामं च य करोति च भामिनि ॥

  1. जालघात- क, ड, च
  2. विशमिम इति चेत् सम्यक्
  3. च कोशादन्यत्र उपचक्रमेत् इति पाठ
19