पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३४

पुटमेतत् सुपुष्टितम्
भूमिका

इदम् उपनिषद्वाक्यं तु वेदशाखाभि सह श्रुतिश्चैकायनाख्या स्वात्मना कथमधीतेति सनत्कुमाराय नारदेन कथिता कामपि कथाम् अभिव्यनक्ति । अतश्चानुमीयते, यत् वैदिकजनबहुमत प्रमाणतो वेदसमानधर्मा पञ्चरात्राह्वय प्राक् परमपुरुषोपदिष्ट शिष्टजनोज्जीवनहेतु अस्त्यनुवर्तमान कालाद्बहोरेष आगम इति । श्रीनिगमान्तगुरुभिरपि "श्रुतिमूलमिदं तन्त्र प्रमाण कल्पसूत्रवत् इति श्रुतिमूलकत्वमस्य शास्त्रस्य प्रमाणान्तरोल्लेखेन प्रतिपाद्य, "इत्यादिवचन तु त्रय्यन्तमूलतया एकायनश्रुतिमूलतया च योज्यम्" इति विवरणेन एकायनश्रुतिरप्यस्य मूलमिति निरूपितमास्ते न्यायपरिशुद्धौ शब्दाध्याये[] । स्पन्दप्रदीपिकानाम्नि पञ्चरात्रागमग्रन्थे “पाञ्चरात्रश्रुतावपि–यद्वत् सोपानेन प्रासादमारुहेत् प्लवेन वा नदीं तरेत् तद्वच्छास्त्रेण हि भगवान् शास्तावगन्तव्य " इति "पाञ्चरात्रोपनिषदि च–ज्ञाता च ज्ञेय च वक्ता च वाच्य च भोक्ता च भोज्यं च' इति च[] या पाञ्चरात्रश्रुति पाञ्चरात्रोपनिषद च भट्टोत्पल इति ख्यात उत्पलाचार्य (उत्पलवैष्णव इति ष्रेडर्महाशय) स्वयमुदाहरति ते च द्वे शाखामेकायनाख्यामेव विनिर्दिशत इत्यभिप्रयन्ति विमर्शका । उत्पलाचार्येण स्वप्रबन्धे समुद्धृतानि तादृशानि वचनानि यदि यथावद्विमृश्यन्ते, तर्हि तदनुरोधेन पाञ्चरात्रश्रुति , पाञ्चरात्रोप निषत्, पाञ्चरात्रसंहिता चेति पाञ्चरात्रशास्त्रमिदं त्रिधा विभज्य व्यवहृतमिति निर्णेतव्यमस्ति । भगवद्यामुनार्यजीवितकालस्य प्राय सप्ततिसवत्सरेभ्य प्राक् दशम्या कैस्तवशताब्द्याम् उत्तरापथे प्राप्तप्रथस्य उत्पलाचार्यस्य कालेऽपि

पञ्चरात्रागम श्रुतिरूपेण प्राप्तप्रचार समभवदिति प्रायेण विषयाश एष एव

  1. ऋगादिभेदेन वेदशाखाविभजनात् प्राक् विद्यमाना एकायनशाखैव मूलवेद इति गृह्यसूत्रमपि किञ्चित् तत्प्रयुक्तकर्मप्रतिपादकमिति, मूलवेदे त्रय्यन्ते च प्रतिपादिताशानाम् उपबृह्मणायैव भगवता पञ्चरात्रशास्र स्वय प्रणीतमिति च निगमान्तगुरवोऽभिप्रयन्ति ।
  2. दृश्यता विजयनगरसस्कृतग्रन्थावली (पुटौ 2, 40)