पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३५

पुटमेतत् सुपुष्टितम्
भूमिका

पाञ्चरात्रसंहितासु प्राक्तनैर्ग्रन्थकर्तृभि एकायनशाखात्वेन निर्दिश्यत इति च सभाव्यते । “स एतं पुरुषमेध पञ्चरात्र यज्ञक्रतुमपश्यत्" इति पञ्चरात्रयज्ञम्य शतपथब्राह्मणे (१३-६ १) पठ्यमानत्वात्, पञ्चरात्रमिति प्रथितं शास्त्रमिदं महाभारतकालादपि चिरन्तन स्यादिति, तच्छास्त्रस्य पुनर्नवीकरणाय लोके परितः प्रवर्तनाय च सात्त्वत-जयाख्य-पौष्कर-पाद्मादय: सुबहवः सहिताग्रन्थाः कालेन प्राक् प्रादुरभवन्निति च विमर्शनपरा विद्वांसो विविधा उपपत्तीरुपपादयन्ति । इद च शतपथब्राह्मणे परिदृश्यमानं पञ्चरात्रशब्दमवलितं वचनमेव तादृशशास्त्रसंज्ञासूचनविषये प्राचीनतममिति प्रतिभाति ।

 एवम् उत्तरापथे शरदा सहस्रस्य प्राक् काश्मीरेषु तदुपान्तेषु चोत्पलवैष्णवप्रभृतिभिः [] पाञ्चरात्रशास्त्रप्रचारमध्यगच्छत् इत्यवगम्यते । अनन्तरं च दक्षिणभारते क्षैण्य तस्य शास्त्रस्य विपक्षवादिना विवृद्धिं च विलोकितवता श्रीयामुनार्येण पाञ्चरात्रस्य प्रामाण्यस्थापनाय आगमप्रामाण्याभिध प्रौढो ग्रन्थः प्रणीत इति, श्रीभाष्यकारैः श्रीभाष्यस्य पाञ्चारात्राधिकरणे स एव विषयप्रपञ्चितोऽनन्तरमिति च विदितमेव विश्वेषा वैष्णवसाम्प्रदायिकानाम् । सत्यप्येव परस्तात् पुनरपि हायनशतकैः त्रिचतुरैः हानिमस्य शास्त्रस्य आपातमतिप्रसरकलुषितात् स्वपक्षात् परपक्षादपि महतीं समुपनता प्रतीक्षितवता निपुणमतिना निगमान्तगुरुणा निश्शेषतः श्रुति-स्मृति-पुराणेतिहाससम्बन्धिनां प्रमाणग्रन्थानां विमर्शपूर्वकं तत्तद्ग्रन्थेभ्यः प्रमाणानि शतशश्चोदाहृत्य, तस्यै तस्य शास्त्रस्य स्थूणानिखनन्यायेन वैदिकजनपरिग्राह्यत्वस्थापनार्थम्, सामयिकानां बहूनामपरेषामत्र विश्वासोपजननार्थम्, वैदिकैः विशिष्य श्रीवैष्णवैः प्रत्यहम् अनुष्टेयानां पाञ्चकालिकप्रक्रियाणां परिस्फुटतया प्रदर्शनार्थं च

श्रीपाञ्चरात्ररक्षाभिध प्रबन्ध एष प्रणीतः । इममाशयमेव ग्रन्थस्योपसहारे स्वयं

  1. 'एष चोत्पल शैवमार्गमपरवयसि स्वयमवालम्बतेति श्रूयते ।