पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४६

पुटमेतत् सुपुष्टितम्
१७
भूमिका

प्राक् तिरुमलै वेदान्तरामानुजाचार्याख्येन केनचित् तालपत्रेषु दिवसै द्वादशभिरेव विलिख्य समापितोऽयं कोशः इति ज्ञायते । '४९६० कल्यब्दे सौम्यवर्षे कार्तिक मासस्य पञ्चदशेऽह्नि लेखनमारभ्य तस्य मासस्य सप्तविंशे दिवसे एकादशीतिथौ वृषभलग्ने लेखनसमापनं कृतम्' इति, 'श्रीपाञ्चरात्ररक्षा लिखिता श्रुत्यन्तलक्ष्मणाख्येन । पठितव्या द्विजवर्यै दातव्या तत्समक्षमेवेयम्’ इति च तेनैव लेखकेन पुस्तकस्यावसाने विलिखितमास्ते । यद्यप्ययमक्षरतः सुन्दरः, तथापि पाठत एष न विस्रम्भमर्हति । अस्मिन् परिदृश्यमानान् दोषान् मुद्रितपुस्तकस्थैः तैः समं विन्यस्य विषये विमृश्यमाने, कोश एष एव स्वमुद्रितानां प्रायशो मातृ कात्वेन भूतपूर्वै मुद्रापकैः स्वीकृतः स्यादिति सम्भावयाम । यद्यप्यामूलात् पुस्तकमिदम् अशिथिलः समग्रः चास्ते, तथापि त्रिचतुरेषु स्थलेषु लेखकप्रमादेन वा एतन्मूलभूते मातृकाकोशे "समुपनतेन वैकल्येन वा कतिचन पङ्क्तयो दृश्यन्ते विसृष्टा ।

 ४. “ग” संज्ञितः कोश एष च तालपत्रेषु सुव्यक्त लिखितो मद्रपुरराजकीयहस्तलिखितपुस्तकभाण्डागारसबन्धी, 5281 (M 49-1) अङ्क चिह्नितः । समग्रोऽयम् । केन कदा लिखित इति नावगम्यते । “ख" कोशस्य समानवयस्को वा ततः किञ्चिदर्वाचीनो वा स्यादिति संभाव्यते । अस्य च 'ख' कोशस्य च पाठरीत्या पार्थक्यं न प्रायः परिदृश्यते । अस्मिन् “इति कवितार्किकसिह्मस्य सर्वतन्त्रस्वतन्त्रस्य . . इत्यादिकं साम्प्रदायिक ग्रन्थसमाप्तिवाक्यं कचिदप्यधिकाराणाम् अवसानेषु ग्रन्थावसाने वा न दृश्यते ।

 ५ "घ" सज्ञितः कोश एष च तालपत्रमयो मद्रपुरराजकीय हस्तलिखितपुस्तकभाण्डागारादधिगतः । R 4227 अङ्कचिह्नितः । अतीव पुरातनः । किञ्चिदूनवर्षशतकादर्वाक् लिखितयोः ” “ख” “ग" कोशयोः पत्राणां लिपीनां चावस्थितिम् अदसीयाना पत्राणामवस्था च सममेकत्र निरीक्षितवद्भिरस्माभिः कोश एष वर्षाणां शतत्रयेण तयोः स्याज्ज्यायानिति विभाव्यते । दिष्ट्या न ह्यस्य दलानि कालेनैतावता घुणमुखैः क्षतानि; न वा वयोवशात् विदीर्णानि । पाठतः प्रशस्तमिममेव कोशमनुरुध्य श्रीपाञ्चरात्ररक्षायाः पाठपरिष्कारे वयमभवाम प्रभविष्णवः । अत्र दृश्यमानाः साधुसंमताः पाठाः सुबहवः पुस्तकान्तरेषु मुद्रितेष्वमुद्रितेषु च न विलोक्यन्ते ।