पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/५०

पुटमेतत् सुपुष्टितम्
२१
भूमिका

सात्त्विकसप्रदायप्रवर्तकमिति पारे गिरा खलु निगमान्तगुरोस्तस्मिन् बहुमानातिशय, यतो हि नाम पाञ्चरात्रशब्दस्य पूर्व श्रीशब्दमायोजयन्नेव तच्छास्त्रमेष सर्वत्र व्यवहरति । अत एवामुमपि ग्रन्थं--न हि पाञ्चरात्ररक्षेति अपि तु--श्रीपाञ्चरात्ररक्षेति श्रीशब्देन सहैव सर्वत्र निर्दिशति । महति शास्त्रग्रन्थे [१]न्यायपरिशुद्धौ, प्रपन्नानामुपजीव्ये [२]रहस्यत्रयसारे च ग्रन्थस्यास्य समाख्यां नन्वेवमेवास्त्युदाहृतेति विदन्त्येव साम्प्रदायिका ।

 श्रीमन्निगमान्तगुरुभि अनुगृहीतेषु तत्त्वहितपुरुषार्थप्रवर्तकेषु सुबहुषु ग्रन्थेषु केचन मतान्तरनिरासका, कतिचन स्वमतसस्थापका, अपरे केचन

प्रपत्तिशास्त्रप्रतिष्ठापका अन्ये च कतिचन तच्छास्त्रसम्मतसंप्रदायसंरक्षणपराश्चेति मन्ये श्रीदेशिकग्रन्थविमर्शकपराणा विदितमेव । एतेषु चान्तिमनिर्दिष्टा श्रीवैष्णवैर्बहुमता अभ्यर्हिततमा पञ्चरक्षाग्रन्था । ते च सच्चरित्ररक्षा, निक्षेपरक्षा, गीतार्थसग्रहरक्षा, रहस्यरक्षा, [३]श्रीपाञ्चरात्ररक्षा चेति प्रसिद्धा । साङ्गस्य न्यासविद्यास्वरूपस्य विविधै प्रकारै प्रतिपादका प्राथमिकाश्चत्वारो रक्षाग्रन्था प्रपत्तिमार्गप्रवृतै सुतरामुपजीव्यतयानुष्ठेयस्य स्वयप्रयोजन

  1. "तत् सर्व श्रीपाञ्चरात्ररक्षासिद्धान्तव्यवस्थाया सर्वपरामर्शेन साधितमस्माभि" इति न्यायपरिशुद्धौ शब्दाध्यायस्य द्वितीयाह्निके ।
  2. इति मध्येचरमश्लोकाधिकार श्रीरहस्यत्रयसरे । अतश्चावगम्यते--न्यायपरिशुद्धि, श्रीरहस्यत्रयसारश्च श्रीपाञ्चरात्ररक्षाया अनन्तर प्रणीतौ ग्रन्थाविति ।
  3. सच्चरित्ररक्षा--श्रीवैष्णवानाम् अनन्यप्रयोजनाना सच्चरितसबन्धिना विषयाणां प्रतिपादिका । निक्षेपरक्षा--न्यासविद्याया प्रतिपक्षप्रतिक्षेपपूर्वक संस्थापनाय प्रवृत्तोऽय ग्रन्थ । गीतार्थसग्रहरक्षा--न्यासविद्याप्रतिपादकशास्त्रतत्वस्यार्थविवरणपूर्वक तच्छास्त्ररक्षणाय प्रवृत्तेयम् । रहस्यरक्षा--न्यासविद्याया स्वरूपादीनामपवादान् अर्वाचीनै प्रवर्तितान् परिहरन् प्रपत्तिवर्मानुष्ठानस्वरूपस्य प्रतिपादनाय प्रवृत्तोऽय ग्रन्थ ।