पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/६७

पुटमेतत् सुपुष्टितम्
श्रीपाञ्चरात्ररक्षा

 अत्र तावत् प्रत्यक्षितसमस्तवेदार्थतत्त्वस्थितिभिः पाराशर्यप्रभृतिभिर्महाभारतादिषु भगवच्छास्त्रस्य सार्वभौमं प्रामाण्यं प्रत्यपादि ।

पञ्चरात्राणा
प्रामाण्यम् ।

शारीरके च, कपिलकणभक्षभिक्षुक्षपणकपशुपतिसमयप्रतिक्षेपसमनन्तरं तन्त्रान्तरसहपाठादिसभवन्मन्दमतिव्यामोहशमनाय "उत्पत्यसम्भवात् ?", "न च कर्तुः करणम्" इति सूत्राभ्यां पूर्वपक्षमुपक्षिप्य, "विज्ञानाद्विभावे वा तदप्रतिषेधः ?", "विप्रतिषेधाच्च" इति सूत्रद्वयेन जीवोत्पत्याद्यनुप[]पत्तितत्प्रतिषेध[]प्रतिपादनद्वारेण सिद्धान्तः समर्थितः । भगवद्यामुनमुनिभिर्भाष्यकारैश्च--

"इदं महोपनिषद् चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
वेदान्तेषु यथासारं संगृह्य भगवान् हरि ।
भक्तानुकम्पया विद्वान् सचिक्षेप यथासुखम्" ॥

इत्यादिप्रमाणगणप्रतिपादितप्रक्रिया अतिविततगहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव्यतासग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन क्वचिदप्यप्रामाण्य न शङ्कनीयमिति निरणायि । कर्मकाण्डेऽपि प्रमाणलक्षणे सभवद्वेदविरोधानां व्यासाद्यपरिगृहीतानामेव स्मृतीनामप्रामाण्यमसूत्यूत । ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः समानयोगक्षेम सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि आगमप्रामाण्ये निराचक्रिरे । उक्तं च--

"तच्चेदेतच्छ्रुतिपथपरिभ्रष्टतन्त्रैः समानम्
पातृत्वेन प्रसजति तदा सोमपास्ते सुरापा ।" इति ।

 शूद्रार्चनादिप्रसङ्गे त्वेव प्रतिबन्दी श्रीकृष्णमुनिभिरुक्ता--

  1. अनुपपत्तिशब्दः छ कोशे नास्ति, अनुक्ति--ज
  2. प्रतिक्षेप--ख.