पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/७०

पुटमेतत् सुपुष्टितम्
प्रथमोऽधिकारः

 अत्र विज्ञानशब्देन संवित्सिद्ध्यादिषु स्वयमेव स्थापित विशिष्ट ज्ञान विवक्षितम् । आह हि-

'यथा चोलनृप सम्राडद्वितीयोऽस्ति भूतले ।
इति तत्तुल्यनृपतिनिवारणपरं वच ॥
न तु तत्पुत्रतद्भृत्यकलत्रादिनिवारणम् ।
तथा सुरासुरनरब्रह्माण्डशतकोटय ॥
क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितु ।
ज्ञानादिषाड्गुण्यनिधेरचिन्त्यविभवस्य ता ॥
विष्णोर्विभूतिमहिमसमुद्रद्रप्स[१]विप्रुष' । इति ।

इम च वेदभेदं भोजराजबलदेवाचार्यादयश्च विविचते-

’यो वेदवृक्ष बहुमूलशाखं नानाफलार्थिद्विजसंघसेव्यम् ।
पूर्वश्रवानुश्रवभेदभिन्नमारोपयत्त[२] पुरुषं प्रपद्ये’॥ इत्यादिभि ।

एवं च सर्वत्रासङ्कर संग्रहेण प्रदर्शित । श्रीसात्त्वते-

’न शास्त्रार्थस्य शास्त्राणा बुद्धिपूर्व उपप्लव ।
आचर्तव्य इहाज्ञानात्[३] पारम्पर्यक्रम विना' । इति ।

अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु[४] परिदृश्यमानप्रमाणमूलानि आचारपरम्परापरिगृहीतानि च कर्माणि न मात्रयापि परिभाव्यानि[५] । न च तद्विरुद्धान्युपादेयानीत्युक्त भवति ।

  1. समुद्रलव-ग , समुद्रजल-क, च, झ.
  2. आरोपयन्त-क. ख. च. झ
  3. इहाज्ञात्वा-घ, छ
  4. प्रत्यभिज्ञानेषु स्थानेषु-घ, ड
  5. परिहाप्यानि-क, ग, घ, ड, च, छ, ज