पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/७६

पुटमेतत् सुपुष्टितम्
११
प्रथमोऽधिकारः

मूर्तिमद्भिश्च देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् ॥
तत् तन्त्रसिद्धान्ताह्वानं चतुर्थ परम पुन ।
सौम्यसिहादिभूयिष्ठवक्त्रभेदैश्चतुर्मुख ॥
द्वित्र्यादिमुखभेदा वा मूर्तिरेकैव पूज्यते ।
सवृता परिवारै स्वैर्विना वा सर्वकामदा ॥
यत्र तत्रान्तरं तत् स्याच्चतुर्थ चतुरानन ।
येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता ॥
आदौ तेनैव सकला नान्यसिद्धान्तवर्त्मना ।
तन्त्रेणापि तथा येन कर्षणादिक्रिया कृता ॥
तेनैव सकला कार्या न तन्त्रान्तरवर्त्मना ।
तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि ॥
सिद्धान्तसङ्करस्तस्मात्तन्त्रसङ्कर एव च ।
दोषाय कल्पते राजराष्ट्रधामक्षयात्मने ॥
सिद्धान्तसङ्करे जाते प्रमादात्तस्य शान्तये ।
कृत्वा सम्प्रोक्षण पूर्व सहस्रकलशाप्लव ॥
कतव्य स्नपन कुयात्तन्त्रसङ्करसम्भवे ।
अन्ते महोत्सव कुर्यात् ध्वजारोहणपूर्वकम्' ॥ इति ।

अत्र पाद्मोक्ततन्त्र[१] -तन्त्रान्तरलक्षणं पौष्करोक्ताविरोधेन नेतव्यम् । यदि

द्वयोर्ग्रन्थयोरैकार्थ्य सभवति तदा न विरोध । इतरधा तन्त्रतन्त्रान्तरलक्षण[२] द्विप्रकारमनुसन्धेयम् । यथा न्यायविस्तरे –’सर्वतन्त्रप्रतितन्त्रा-

  1. तन्त्र-घ कोशे नास्ति
  2. इतरतन्त्रेषु अभ्युपगमसिद्धान्ततन्त्रतन्त्रान्तर लक्षण-क, ख, ग.