पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


या मूर्तिः क्षमया मुनीश्वरमयी गोत्रासगोत्रायते
विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषायते ॥
भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते
कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥ ७० ॥
न बभूव पुरातनेषु त
त्सदृशो नाद्यतनेषु दृश्यते ॥
भविता किमनागतेषु वा
न मुमेरोः सदृशो यथा गिरिः ॥ ७१ ॥




बादरायणेः शुकस्य यशः काश्यै परं गाहतां प्राम्रोतु । किं बहुजल्पैर्मुनिशेखरस्य
अशकरस्य तुलामुपमां कुत्रापि न वीक्षामहे । अत्र त्यागस्य सकृद्वमस्य प्रतिपाद्
नातुल्ययोगिताऽलंकारः ।
 'नियतानां सकृद्धर्मः स पुनस्तुल्ययोगिता' इत्युक्तः ॥ ६९ ।।
 [मुनिशेखरस्य मननशीलसार्वभौमस्य श्रीशंकराचार्यस्येत्यपकृष्यात्रापि सर्वत्र यो
 किंच या मुनीश्वरमयी मूर्तिः क्षमया गोत्रासगोत्रायते गोत्राया भूमेः सगोत्रं सजा
तीयं तद्वदाचरति भूमिसाम्यं लभते । तथा या मुनीश्वरमयी मूर्तिनिरवद्या निर्दोषा
कीर्तियाभिस्तथाभूताभिर्विद्याभिरलमत्यन्तं भाषाविभाषायते भाषायाः सरस्वत्या विभाषा
विकल्पस्तद्वदाचरति विकल्पेन सरस्वतीभावं प्राप्तोतीव । तथा या मुनीश्वरमयी मूर्ति
भैक्तानामभीप्सितस्य साधनेनात्यन्तं कल्पादिकल्पायते कल्पवृक्षचिन्तामण्यादिसदृशव
दाचरति तत्साम्यं प्राम्रोति तां मुनीश्वरमयीं मुर्तिमन्यैः प्राकृतजनैस्तुलयितुं को वा
न मन्दाक्षमन्दायते मन्दाक्षेण लज्जया मन्दो मन्दाक्षमन्दस्तद्वदाचरत्यापितु सर्वोऽपी
त्यर्थः ।। ७० ।॥ [भाषेत्यादि । ‘ब्राह्मी तु भारती भाषा' इत्यमराद्भाषायाः सरस्वत्या
विभाषायते विकल्पवदाचरति तुल्यबलतया व्रीहिभिर्वा यवैर्वा यजेतेत्यादिवत्सरस्वती
कार्यकारिणी भवतीत्यर्थः ] [ लुप्तोपमाविशेषोऽलंकारः ] ।। ७० ।।
 पुरातनेष्वतीतेषु श्रीशंकरतुल्यो न बभूवाद्यतनेषु वर्तमानेषु नैव दृश्यतेऽनागतेषु
भविष्येषु किं वा भविताऽपितु नैव भविष्यति । यथा कालत्रयेऽपि सुमेरोः सदृशो
गिरिर्नास्ति तद्वत् । वियोगिनी वृत्तम् ॥ ७१ ॥ [ न बभूवेति । अनन्वयानुमाणि
तोपमालंकारः ] ।। ७१ ।।


१ ख. घ. "भिर्यासां वा तथा'। २ क. वैतालीयं ।