पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ भैक्ष्यंमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानं । कम दातृवर शास्त बटूना शर्मदायिनिगमाप्तिपटूनाम् ॥ १७ ॥ कर्म नैजमपहाय कुभोगैः कुर्महेऽह किमु कुम्भिपुरोगैः ॥ इच्छया सुखममात्य यथेतं गच्छ नैर्थमसकृत्कथयेत्थम् ॥ १८ ॥

तदुदाहरति । भैक्ष्यं भिक्षया लब्धमत्रं परिधानमाच्छादनमजिनं मृगचर्म विधानं कर्तव्यं नियमेन रूक्षमेव कष्टसाध्यमेव त्रिकालन्नानादि कर्म कर्मप्रातिपादकं वेदादि शास्त्रं हे दातृवर शार्मदायिनां दृष्टादृष्टसुखदायिनां वेदानां प्राष्ट्रौ पटूनां कुशलानां बटूनां ब्रह्मचारिणां शास्ति । यद्वा विधानं श्रुतिस्मृत्यादिनियमेन रूक्षमेव कर्म तत्रापि नियमेनेति वा शास्तीत्यर्थः । शार्मदायीति कर्मणो वा विशेषणम् ॥ १७ ॥ [ आििजनं कृष्णाजिनम् । रूक्षमेवेत्यन्नपरिधानयोरुभयोरपि विशेषणम् । विधानं संध्यावन्द नाभिकार्यवेदाध्ययनगुरुशुश्रूषाद्यनुष्ठानामित्यर्थः ] ॥ १७ ॥ तथाचैवंविधा ब्रह्मचारिणो वयं नैज स्वीयं कर्म विहाय कुम्भिपुरोगैः कुभोगैभों ग्यन्त इति भोगा विषयास्तैरिभपुरःसरैः कुत्सितैर्विषयसंभोगैः किं कुर्महे । अहेति । प्रसिद्धार्थकमाश्चर्यार्थकं वाऽव्ययम् । तर्हि मया किं विधेयमित्याकाङ्क्षायामाह । हे सविवेच्छया सुखं यथा स्यात्तथा यथेतं यथागतं तथा गच्छ । इत्थममुना प्रकारेणा सकृदर्थे न कथय ॥ १८ ॥ [ कुम्भीति । प्रकृतत्वदानीतदन्तिपतिमुख्यैरित्यर्थः । एतादृशैः कुभोगैः स्वधर्मविरुद्धविषयोपभोगैरिति यावत् ] [ किं कुर्महे न किमपीति संबन्धः । वयमिति शेषः । अत एव । इच्छयेत्यादि । इच्छया निरुक्तगजान्तसंप त्युपभोगवाञ्छयाऽपि किं सुखं कुर्महे संपादयामो न किमपीति माग्वदेव । अतः । हे अमात्य त्वं यथेच्छं नाथं स्वस्वामिनं प्रति गच्छ ततोऽसकृदित्थं कथयेत्यन्वयः । नाथं प्रतीत्यार्थिकमेव ] ॥ १८ ॥

  • भैक्षमिति तु समीचीनम् ।

[सर्गः ५] क. नाथम'। २ ख. ग. "दि कर्मप्र'। ३ क. ख. *च्छ । यत इ'।