|
इति । भामुरेति । भासुरः शरद्राकाभवत्वेनातिपकाशमान एतादृशो य उडुप
‘तारकाऽप्युडु वा स्त्रियाम्' इत्यमरादुडुनि नक्षत्राणि पातीत्युडुपश्चन्द्रस्तस्य ये
गभस्तयोः 'गभस्तिघृणिरश्मयः' इत्यमरात्किरणास्तद्वन्निर्मलं शुष्कमुपवीतं यज्ञसूत्रं
यस्य स तथा तमित्यर्थः ] ॥ २१ ॥
कृष्णहरिणस्य चर्म दधानं सर्वमुचितं कर्म विदधानं नृतनमेघतुल्यमम्बरमस्यास्तीति
तथा तं पूतनायाः कंसप्रेषिताया आरिः शत्रुः कृष्णस्तस्य सहजं भ्रातरं बलभद्रं
तुलयन्तं ततुलां दधानम् ॥ २२ ॥[ चर्मेति । तत्रापि मथमपतीपमाह । नूतनेति ।
तुलयन्तं स्वात्मसमं कुर्वाणमिति यावत् । प्रतीपलक्षणं तूक्तं चन्द्रालोककारकासु ।
प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् । |
जातरूपस्य सुवर्णस्य रुचिरिव रुचिर्थस्य तस्य मुञ्जसंज्ञकस्य तृणविशेषस्य सुधाम्रा
सुषुतेजसाऽऽश्वर्थमन्दिरेण च्छातं छत्रं रूपं यस्यास्तथाभूता कटिः श्रोणिर्यस्य
सत्कृतिः सुकृतं तया लब्धं पाकेन परिणत्या पीता या लातिकाः सूक्ष्मलतास्तार्भि
परिरब्धमालिङ्गितं स्वर्गभूमिजं कल्पद्रुममिव ॥ २३ ॥[ सदिति । सती या कृति
ज्योतिष्टोमादिक्रिया तया लब्धः प्राप्तस्तमित्यर्थः । एतादृशम् । पाकेति । पाकः
परिपाकस्तेन पीताः पीतवर्णा या लातिका ‘वली तु व्रततिर्लता' इत्यमराद्वलन्यस्ताभिः
परिरब्धः संवेष्टितस्तामित्यर्थः । नाकभूजमिव स्वर्गभूमिरुहमिव कल्पद्रुममिवोति यावत् ।
एते नाऽऽचार्ये समीहितदातृत्वं ध्वन्यते । पूर्णोपमालंकारः ] ॥ २३ ॥
स्मितेन मन्दहसितेन सहितं मुनिवरस्य शिवगुरोः कुमारं नरपतिर्बहुवारं मणतिं