पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१६६
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

त्यजति नूनमयं चरणं चंलो
जलचरोऽम्ब तवानुमतेन मे ।।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिः परिकल्पये ॥ ६५ ॥
इति शिशौ चकिता वदति स्फुटं
व्यधित साऽनुमतिं हुतमम्बिका ।।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयः ॥ ६६ ॥




खेदे । मे मृतिः पुराभर्तृमरणात्प्रागेव कुतो नाजनि न समुत्पन्नेत्यन्वयः । अत्र
शिवेति संबोधनात्कल्याणमूर्तिभक्ताया ममैवंविधभर्तृमरणपुत्रमरणावेक्षणाकल्याणमयुक्त
मेवेति भावः ] ॥ ६४ ॥
 एवमतिशोकपरीतां मातरमालक्ष्याऽऽह । त्यजतीति । हे अम्ब मे चरणमयं
चञ्चलो जलचरस्तेऽनुमतेन सकले संन्यसने परिकल्पिते सति त्यजति तथाच
यदि तवानुमतेिस्तद्येहं परिकल्पये सकलसंन्यसनमिति विपरिणामेन संबन्वनी
यम् ॥ ६५ ॥ [ अय्यम्बायं प्रत्यक्षः ] [ अयं भाव । दुःखं हि पापैकफलमिति
निर्विवादम् । तच्च पापं ‘धर्मेण पापमपनुदति' इति श्रुतेभोंगेनेव धर्मेणापि नश्यति । स
च धर्मः सत्यं परमित्याद्युपक्रम्य न्यास एवात्यरेचयदित्युपसंहारेण संन्यासैकावधिक
इति तेन सद्य एवालौकिकपुण्योत्पत्या निखिलपापनाशात्तन्मूलकपकृतदुःखनाशो भवि
ष्यत्येवेति । तत्र यदि तवानुमतिरनुमोदनमस्ति तर्हहं सकलसंन्यसनं यथाविििवप्रे
षोच्चारणाभयदानादिलक्षणातुरसंन्यासविधिना परिकल्पयेऽनुतिष्ठामीति संबन्धः ।
तस्मात्त्वयाऽत्रानुमतिर्देयैवेति भावः ] ॥ ६५ ॥
 इत्येवंप्रकारेण स्फुटं यथा स्यात्तथा शिशैौ वदति सति चकिता साऽम्बिका दृवं
शीघ्रमनुमतिमनुमोदनं व्यविताकृत । स्फुटमिति मध्यमणिन्यायेनात्रापि संबन्धनीयम् ।
शीघानुमतिकरणे हेतुं तत्कृतं निश्चयं दर्शयति । सति सुते सुतस्य दर्शनं मम
भविष्यति मृतवतस्तु तद्दर्शनं न भविष्यतीति विशेषेण निश्चयोऽस्तीत्यर्थः ॥ ६६ ॥
['उ' इत्यवधारणेऽव्ययम् ] ॥ ६६ ॥