पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
१५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

सैषा कलिमलच्छेत्री सकृच्छूत्याऽपि कामदा ॥
नानाप्रश्रोत्तरै रम्या विदामारभ्यते मुदे ॥ २७ ॥
एकदा देवता रूप्याचलस्थमुपतस्थिरे ॥
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥ २८ ॥
प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम् ॥
मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् ॥ २९ ॥
विज्ञातमेव भगवन्विद्यते यद्धिताय नः ॥
वश्वयन्मुगतान्बुद्धवपुर्धारी जनार्दनः ॥ ३० ॥




 सैषा शांकरी कथा कलिमलनाशकत्र सकृच्छूवणेनापि काम्यमानपुरुषार्थचतुष्टय
प्रदा नानामश्रोत्तरैर्मनोज्ञा विदुषां प्रमोदार्थमारभ्यते ॥ २७ ॥ [ कलीति । ऐश्धरप
रमसात्विकतरावतारचरितत्वादित्यर्थः ] ॥ २७ ॥
 इत्थं संग्रहेण शांकरी कथां निरूप्य तस्या विस्तरेण निरूपणं प्रतिज्ञाय तदुपोद्धा
तत्वेन कथां पस्तौति । एकदेति । एकदैकस्मिन्काले रूप्याचले कैलासे स्थितं देवा
नामिन्द्रादीनां देवं महादेवं पूर्वाचलस्थं चन्द्रमिव देवता उपतस्थिर उपासांचक्रिरे। दे
वता ब्रह्माद्या अत्र ग्राह्याः । निगमाचारपरिभ्रष्टानागमाचाररतान्विप्रादिवर्णानवलोक्य
सत्यलोकंगतेन नारदेन प्रेरितो ब्रह्मा स्वभक्तादिसहितः शिवलोकमागत्य प्रणिपत्य प
ञ्चवक्त्रं शिवैमूच इति पाचीनविजयोत्तेः ॥२८॥ [ इन्द्रादयः । पूर्वेति । उद्याद्रि
गतम् । तुषारेति चन्द्रमिवेतेि संबन्धः । ते ह्यमृताख्यस्वजीवनार्थं तमुपतिष्ठन्तीति
शास्त्रमसिद्धमेव तद्वत्तस्याप्युपादानीभूतामिहोत्रादिवैदिककर्मणस्तथात्वादद्वैतविद्याया
श्च पारमार्थिकामृतत्वहेतुत्वाच युक्त एवायं ब्रह्मादिदेवकर्तृकः शिवस्तवनोपक्रम
इति भावः ] ॥ २८ ॥
 उपास्य यत्कृतवत्यस्तदाह । उपासनया प्रसादितस्य शिवस्य पसन्नतारूपेण लि
ङ्गेनानुमिता स्वार्थस्य सिद्धिर्याभिस्ताः । अमुकुलानि मुकुलीकृतानि इंस्तकमलानि
याभिस्ता बद्धाञ्जलयो देवदेवं प्रणिपत्य पकर्षेण नम्रीभूय विनयेन व्यजिज्ञपन्विज्ञा
पनं कृतवत्यः ॥ २९ ॥ [ प्रसादेति । शंकरस्येत्यार्थिकम् । ब्रह्मादयो देवा इति
शेषः ] ॥ २९ ॥
 तदेवोदाहरति । हे भगवन्नोऽस्माकं हिताय बुद्धवपुर्धारी जनार्दनः सुगतान्वञ्चय
न्यद्विद्यते स्म तत्वया विज्ञातमेव ॥ ३० ॥ [बुद्धेति ।
 


१ क. च्छूत्वाऽपि । २ ग. 'लोकं ग'। ३ ख. ग. 'वमुवाचेति ।