पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


भाषमाण इति तेन कलावा
नेष नैक्षत तमन्त्यजमग्रे ।
धूर्जटिं तु समुदैक्षत मौलि
स्फूर्जदैन्दवकलं सह वेदैः ॥ ३९ ॥
भयेन भक्तया विनयेन धृत्या
युक्तः स हर्षेण च विस्मयेन ॥
तुष्टाव शिष्टानुमतः स्तवैस्तं
दृष्टा दृशोगोचरमष्टमूर्तिम् ॥ ४० ॥




त्म्याध्यासवजिहीर्षया स च तव नास्ति चेत्तर्हि त्वमपि मम गुरुरेवेत्याक्षेपोऽपि परि
हृतो वेदितव्यः ।॥ ३८ ॥ [ यत्र यत्रेति ।

'तमेव भान्तमनुभाति सर्वे तस्य मासा सर्वमिदं विभाति'


 इति श्रुतेः सकलमप्याकाशादिद्वैतजालमधिष्ठानीभूतसदूपभानपूर्वकमेव भातीति
ज्ञानिनः प्रारब्धपरिसमाप्त्यन्तं तत्तदर्थस्य घटादेः सम्यगधिष्ठानाद्विवेचनपूर्वकं
यदवेक्षणं शोधनं तस्य यः कालः क्षणस्तत्र यद्वोधमात्रमवशिष्टं बाधावधिभूतंभवाति
तञ्चाहमस्मीति धीः पमा यस्य स नरो जीवो मे गुरस्तीति योजना ] ॥ ३८ ॥
 एवं निव्र्यलकिं भाषमाणस्त्यक्तान्त्यजविग्रहं प्रकटितस्वस्वरूपं महादेवं ददशेत्याह ।
इत्येवंप्रकारेण तेन सह भाषमाण एष श्रीशंकरस्तमन्त्यजमग्रे न ददर्श किंतु मौलौ
शिरसि स्फुरन्ती चन्द्रकला यस्य तं चतुर्भिर्वेदैः सहितं धूर्जटिं महादेवं संदृष्टवान् ।
ननु श्रीशंकरादन्यस्य शिवस्याभावात्कथमेवमुच्यत इति चेत्तत्राऽऽह । कलावाञ्ज्ञा
नकलावतारस्य शंकरस्यावतारिपुरुषेण सह व्यासस्य विष्णुनेव संवादादिकं संभवत्ये
वेति भावः ॥ ३९ । [ अवतारीभूतस्यास्यावतारिणा राह वम्तुतो भेदाभावेऽप्यवच्छे
दकोपाधिभेदाद्विम्बस्य प्रतिबिम्बानिरीक्षणादिवत्प्रतिबिम्बस्य बिम्बायत्तचेष्टादिवच
विष्ण्वादिना सह व्यासादेरिव संवादादिकं समुचितमेवेति भावः ] ॥ ३९ ॥
 दृष्टा यथाभूतो यत्कृतवांस्तदाह । तं दृष्टा भयेन भक्त्या विनयेन धैर्येण हर्षेण
विस्मयेन च युक्तः शिष्टानुमतः श्रीशंकरो नेत्रयोर्विषयमष्टौ भूम्याद्या मूर्तयो यस्य तं
महादेवं स्तवैस्तुष्टाव । उपजातवत्तम् ।। ४० । [ भयेनेत्यादि । निरुक्ततिरस्कारा
दद्वैतबोधस्वभावान्मनुष्यशरीरौचित्याद्विचारपरिपाकात्सुपसन्नेोक्तव्यतिविलोकनादाक
स्मिकश्धचतुष्टयविशिष्टश्धपचव्यक्तिविलोपनपूर्वकोक्तव्यक्तिसाक्षात्काराच यथासस्य
संजातभयभक्तिविनयधृतिहर्षविस्मयैर्युक्तः सन्नित्यर्थः । दृष्टा दृशोगोंचरमिति पाठस्तु
डिण्डिमादृतोऽपि पौनरुक्त्यापादकत्वादुपेक्ष्य एव । किंतु दृशोगाँचरं तं प्रागुक्त


१ ख. घ. "वंभूतं नि'।