पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । दासस्तेऽहं देहदृष्टयाऽस्मि शंभो जातस्तेंऽशो जीवदृष्टया त्रिदृष्ट ॥ सर्वस्याऽऽत्मन्नात्मदृष्टया त्वमेवे त्येवं मे धीनिश्चिता सर्वशात्रैः ॥ ४१ ॥ यदालोकादन्तर्बहिरपि च लोको वितिमिरो न मधूषा यस्य त्रिजगति न शाणो न च स्वनिः । पतन्ते चैकान्तं रहसि यतयो यत्प्रणयिनो नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥ ४२ ॥ २३१ व्यक्तिकमष्टमूर्ति श्रीशिवम् । शिष्ठति । शिष्टादीनां वसिष्ठादीनां वेदार्थधुरंधरीभूता नामनुमताः संमता ये स्तवास्तैद्वरीभूतैरित्यर्थः । “दृष्टयाऽद्वैतात्मानुसंधानसंतत्येति यावत् । तुष्टाव संतोषयामासेत्यर्थः ] ।। ४० ॥ देहदृष्टया तव दासोऽहमस्मि यतः शं सुखं भवत्यस्मादिति शंभुस्त्वमेव स्वामि त्वगुणयुक्त इति सूचयन्नाह । शंभो इति । जीवदृष्टयाऽहं तवांशो जातः । ननु कथं निरवयवस्य ममांशास्त्वमिति चेद्यथा सर्वेन्द्रियशून्यस्यापि तव सूर्यचन्द्रवह्निलक्ष णत्रिनेत्रविग्रहवत्वं तथा मायया तवांशस्यापि संभवादित्याशयेन संबोधयति । त्रिदृष्ट इति । शुद्धात्मदृष्टया तु त्वमेव त्वदनन्य एवाहम् । तत्त्वमस्यादिश्रुतेः तत्र योग्यं संबोधनं सर्वस्याऽऽत्मन्नितीत्येवंप्रकारेण सर्वशात्रैर्मे बुद्धिर्निश्चयं प्राप्ता । शालिनी वृत्तम् ॥ ४१ ॥ [ उक्तं हि । देहबुद्धया तु दासोऽहं जीविबुद्धया त्वदंशकः । चितिबुद्धया त्वमेवाहमिति मे निश्चिता मतिः' इति ] ॥ ४१ ॥ प्रसिद्धशिरोभूषणमाणतो व्यतिरेकं दर्शयन्वाभित्रं शिवं नमस्करोति । यदिति । मसिद्धस्य तादृशमणेरालोकाद्वहिरेव लोको वितिभिरो मञ्षा पेटा शाणो निकष खनिश्च यतिभिरमार्थना प्रसिद्धस्य मणेः प्रसिद्धा । अत एतस्मादत्युत्कृष्टाय तस्मै तत्पदलक्ष्याय निखिलनिगमशिरोभूषणमणये स्वस्मै त्वंपदलक्ष्याभिन्नाय नमः प्रीभा वोऽस्तु यस्य प्रकाशादन्तर्बहिरपि च लोको वितिमिरः। ‘यस्य भासा सर्वमिदं विभाति' इति श्रुतेः । त्रिजगति यस्य मञ्जषा नास्ति नापि शाणो नापि खनिर्यत्प्रणथिनो यस्मिन्मीतिमन्तश्च यतयो रहस्येकान्ते भृशं यतन्ते तस्मा इत्यर्थः । शिखरिणी वृत्तम्

  • एतेन मृले दृष्टत्येतस्य स्थाने दृष्टथेति पदं योज्यमिति ज्ञायते ।

१ ग. पेटिक.ा ।