पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२. श्रीमच्छकरदिग्विजयः । [ सर्गः ६] अहो शात्रं शास्रात्किमिह यदि न श्रीगुरुकृपा चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः ॥ किमालम्बश्वासौ न यदि परतत्त्वं मम तथा नमः स्वस्मै तस्मै पदवधिरिहाऽऽश्वर्यधिषणा ॥ ४३ ॥ ॥ ४२ ॥ [ यदालोकादिति । यस्य वक्ष्यमाणविन्मणेरालोकः प्रकाशास्तस्य भासेति श्रुतिवदत्राप्यभेदे सत्यप्यौपचारिक्येव षष्ठी ] ॥ ४२ ॥ गुरुकृपया शास्त्रालभ्यस्य तत्त्वज्ञानस्याऽऽलम्बनमखण्डैकरसं स्वतत्त्वं नमस्यति । अहो शास्त्रं परमतत्त्वबोधकत्वाद्धन्यतमं यद्यप्येवंविधं शास्त्रं तथाऽपि यदि श्रीगुरुकृ पाऽस्मिलोके शिष्ये वा न स्यात्तर्हि शास्त्राकि न किमपीत्यर्थः । चिता संचिता संपादिता सा गुरुकृपा किंकुर्याकि फलं दास्यति यदि तत्त्वज्ञानस्य विशेषेणोद्भवो नास्ति बोधा नुत्पादिका साऽपि निष्फलैवेत्यर्थः । तथाऽसौ बोधश्च किमालम्ब आलम्बनशून्य एव यदि मम परतत्त्वं न स्यात्तस्मात्तत्त्वज्ञानालम्बनभूताय परतत्वाय स्वाभिन्नाय तस्मै परमात्मने नमः । तथेत्यस्य तस्मादित्यर्थो वा । इह जगत्याश्चर्यबुद्धिर्यत्पर्थन्ता यस्मा त्पर आश्चर्यबुद्धिविषयो नास्तीत्यर्थः ॥ ४३ ॥ [ अहो इत्याश्चर्ये । तत्त्वमस्यादि शास्त्रमहो परमादुतमेवेत्यर्थः । तथाचाऽऽहुः सदाचारप्रकरणे श्रीमदाचार्थचवरणा एव । शब्दशत्रोरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः । प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुध्यते इति। विस्तरस्तु ‘आश्र्चयवत्पश्यति कश्चिदेनम्' इत्यादिपधे गीतागृढार्थदीपिकाया मेवावगन्तव्यः । एवं शास्त्रस्यैव किं तहिं सवत्कटत्वम् । नेत्याह शास्त्रादित्यादिना ] [ अधीतशास्त्राणामपि नारदादीनां सनत्कुमारादिगुरुप्रसादात्प्राक्शोकोपशमादर्शनात्र किमपि फलमस्तीत्यन्वयः । तत्रापि पूर्ववदस्वरसं सूचयति । चितेत्यादिद्वितीयपादेन । सा श्रीगुरुकृपाििवता संपादिताऽपि यदि ननु निश्चितं बोधस्यापरोक्षाद्वैतात्मसा क्षात्कारस्य विभवो विशेषेणाप्रतिबद्धत्वेन भव आविर्भावो न चेत्तर्हि किं कुर्यान्न किमपि फलं जनयेदिति योजना । तथा हि । छान्दोग्येऽष्टमाध्याये प्रसिद्धमेतत् । इन्द्रविरोचनयोरुभयोरपि कश्यपपुत्रत्वेन स्वमपैोत्रयोरुपर्यात्मप्रतिपादकवाक्यश्रावण लक्षणा ब्रह्मणा गुरुणा करुणा कृतैव तथाऽपि विरोचनो देहात्मवाद्येवाभूदिति । तस्मात्साऽपि वेिनोक्तबोधेोदयं विफलैवेति भावः । तत्राप्यक्तरीतिकम स्वरसं प्राग्वद भिवते किमेित्यादितृतीयपादेन । अत्रादुतो रसः शान्तानुपाणित: । एकावल्य लंकार: ] ॥ ४३ ॥