पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ श्रीमच्छंकरदिग्विजयः । अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् । अस्ताचले वहति चारु पुरःप्रकाश व्याजेन चामरमधादिव दिक्मुकान्ता ॥ ५५ ॥ शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा । तत्रत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाद्धदरीं क्रमात्सः ।। ५६ ।। तेनान्ववर्ति महता कचिदुष्णशालि शीतं कचित्कचिदृजु कचिदप्यरालम् ॥ उत्कण्टकं कचिदकण्टकवत्कचिच्च तद्वत्र्म मूर्वजनचित्तमिवाव्यवस्थम् ॥ ५७ ॥ मुपमावाचकोपादानादनेकेवेयमुपमा । वसन्ततिलका वृत्तम् ॥ ५४ ॥[द्विजेन्द्रो हंस पक्षे ब्राह्मणश्रेष्ठश्चञ्चरीकनिर्बन्धतः सुगन्धलुब्धमधुकरनिर्बन्धनरूपात्सरोजमुकुलादिव । अविकासभाजो मरणोत्तरं जीवो द्वैतप्रपञ्चविकासं यत्र नानुभवति तादृशात्काशीपुरा न्निरगमत् ] ।। ५४ ॥ भुव्यद्वैतशास्त्रविदां सार्वभौमो यश्चक्रवत्र्येष श्रीशंकरो गच्छतीत्यतश्चन्द्रबिम्बात्मैकं श्वेतच्छत्रमस्ताचले वहति सति पुरःप्रकाशव्याजेन दिक्सुकान्ता दिग्लक्षणा शोभना कान्ता चामरं व्यधादिव पाठान्तरे मुखेन दिग्व्यधादिति व्याख्येयम् ॥ ५५ ॥ [*दिङ्मुखेनो दिशः प्राच्या मुखीभूतश्चासाविनः सूर्यश्चेति तथेोदयार्क इत्यर्थः । चारु रम्यं यथा स्यात्तथा । पुरोऽग्रे प्रकाशव्याजेनाऽऽलोकच्छलेन । चामरमधादिव चामरमेव किं कृतवानित्यन्वयः । अत्र रूपकलुप्तोपमाकैतवापहुतिपरकरोत्प्रेक्षा अलं कारा: ] ॥ ५५ ॥ देवनराणां शान्तामुत्तरां दिशं विहायान्या दिगस्मै साक्षान्न समरोचत । ‘उदीच उत्सृजत्येषा वै देवमनुष्याणा शान्ता दिक्’ इति श्रुतेः । तस्मात्तत्रत्यतार्थानि निषेक् माणः क्रमाद्वदरीं गन्तुं स मनोऽधातू । इन्द्रवत्रा वृत्तम् ॥ ५६ ।। कचिदुष्णशालि कचिच्छीतं काचिदृजु कचित्कुटेिलम् । अरालं कुटिले सर्जरसे समददन्तिानेि

  • दिक्सुकान्तेत्यत्र दिङ्मुखेन इति पाठानुसारेणेदम् ।

[ सर्गः ६ ] १ क. ख. घ. ‘नेकैवे'। २ घ. 'त्मकश्चे'।