[ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । आत्मानमक्रियमपव्ययमीक्षिताऽपि पान्थैः समं विचलितः पथि लोकरीत्या । आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ॥ ५८ ॥ तेन व्यनीयत तदा पदवी दवीय स्यासादिता च बदरी वनपुण्यभूमिः ।। गौरीगुरुस्रवदमन्दझरीपरीता खेलत्मुरीयुतदरी परिभाति यस्याम् ।। ५९ ।। स द्वादशे वयसि तत्र समाधिनिष्ठं र्बह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य ॥ षड़िश्च सप्तभिरथो नवभिश्च खिनै र्भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥ ६० ॥ इति मेदिनी । कचिद्वध्र्वमुखकण्टकयुक्तं कचिच कण्टकविनिर्मुक्तं मूर्खजनचि त्वद्यवस्थावर्जितं वत्र्म पन्थास्तेन महताऽन्ववत्र्यनुसृतम् । वसन्ततिलका वृत्तम् ॥ ५७ ॥ [ उदिति । ऊध्र्वमुखाः कण्टका यत्र पक्ष उत्कटाः कण्टका इव दुःखदत्वात्कण्टकाः कामक्रोधादयोऽन्तःशात्रवो यत्र तत्तथेत्यर्थः । पृगॉपमालं कारः ] || ५७ ॥ अक्रियमव्ययमात्मानमक्षिताऽपि पान्थैः सह विचलितः सन्मार्गे लोकरीत्या मधु राणि फलान्यादत् । भक्षणार्थस्याद्धातोर्लङि 'अद: सर्वेषाम्' इत्यपृक्तपावैवातुकस्या डागमे रूपम् । मधुराणि जलान्यपिबतू । प्रायाद्रमनं कृतवानुपाविशदुपविष्टवानशेत शयनं कृतवांस्तथोदतिष्ठदुत्थानं कृतवानित्यर्थः ।। ५८ ।। दवीयसी पदवी तेन व्यनीयत सुदूरं वत्र्मातिक्रान्तवान्वनपुण्यभूमिर्बदर्यासादिता च गैरीगुरोर्हमालयात्स्रवन्तीभिरमन्दझरीभिव्यप्ता यस्यां बदय खेलन्तीर्भिः सुरा ङ्गनाभिर्युक्ता दरी परिभाति || ५९ ॥ [ बदरीति । बद्रीप्रधानं यद्वनं तलक्षणा या पुण्यभूमिः श्रीव्यासाश्रमत्वादिनाऽतिपवित्रपृथ्वी त्यर्थः ] ॥ ५९ ॥ स श्रीशंकरो द्वादशे वयसि तत्र बदर्य समाविनिष्टैः षड़ि : क्षुत्पिपासे जरामृत्यू शोकमोहौ षडूर्मय इत्युक्तषङ्कर्मभिस्तथा त्वक्चर्ममांसास्थिमेदोमज्जारितोभिः सप्तधातुभिः पञ्चवज्ञानेन्द्रि याणि चत्वार्यन्त:करणानीति नवभिश्च ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकमन्त करणचतुष्टयं सगुणभूतपञ्चकं प्रकृत्यष्टकं वाऽविद्या कामः कर्मवासना चेति नवभिरिति २३७ १ ख. ग. दुत्थिातिं कृ । २ क. कमपास'।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति