पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २३९ सहस्रिकादीन्व्यदधात्सुधीड्यः ॥ श्रुत्वाऽर्थविद्यामविवेकपाशा न्मुक्ता विरक्ता यतयो भवन्ति ॥ ६३ ॥ श्रीशंकराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीताः ॥ व्याख्यान्धकाराः प्रलय समायु ढुंवदिचन्द्रप्रभयाऽवियुक्ताः ॥ ६४ ॥ अथ व्रतीन्दुर्विधिवद्विनेया नध्यापयामास स नैजभाष्यम् । तपः परपा तरुणाववस्व न्मरीचिभिः सिन्धुवद प्रशोष्यम् ॥ ६५ ॥ वकरोोदिति श्लेषेणाऽऽत् । तत इत्युपजात्यर्वन ] [ भागवतीर्भगवत्संबन्धिनीः । जन्यजनकभावेन भगवद्रीताः । सहस्रनामपक्षे प्रतिपाद्यप्रतिपादकभावसंबन्धेनैव तथात्वं बोध्यम् । पक्षे गीता भीष्मादिभिर्भतैगनकर्मकृता ‘विश्धं विष्णुः' इत्याद्या आख्या इत्यर्थः । एतत्समुचायक एव चकार । अवशिष्टाधेन सनत्सुजातभाप्यं नृसिंहपूर्व तापनीयभाप्यमप्यकरोदित्याह । सनत्सुजातीयमिति ] [ असदिति । असतामन विकारिणां सुदूरमतिदुर्लभाथैकमित्यर्थः ] ॥ ६२ ॥ तदनु ततः पश्चादुपदेशसहत्रिकादीनसंख्यातान्ग्रन्थान्सुधीभिः स्तुत्यः परमार्थज्ञ श्रीशंकरो व्यदधातू । यान्ग्रन्थाञ्श्रुत्वा विरक्ता यतयोऽविवेकपाशान्मुक्ता भवन्ति ।॥६३॥ श्रीशंकराचार्यसूर्य उदयं प्राप्य प्रकाशमाने सति दुर्वादिचन्द्रपभयाऽवियुक्ता सहिताः कुबुद्धिभिः प्रणीता व्याख्यान्धकाराः सम्यग्लयं पापुः ॥ ६४ ॥ [ दुर्वा दीति । दुर्वाधेव भेदवाद्येव कलङ्गित्वदोषाकरत्वादिसाधम्यचन्द्रस्तस्य या प्रभा तयेति यावत् । आवियुक्ताः सन्त इत्यर्थः । एवंच न केवलं भेदवादिनां ग्रन्था एव नष्टाः किंतु कीर्तिरपीत्याकृतम् । प्रलयं ध्वंसम् । समीयुः पुनरुन्मज्जनाभावपूर्वकमेव विनाशं प्रापुरित्यन्वयः ] [ रुरूपकादिरलंकारः ] ॥ ६४ ॥ अथानन्तरं परेषां वादिनां तकैस्तरुणैः सूर्यकिरणैः समुद्रवच्छोषयितुमशक्यं स्वीयं भाष्यं स व्रतीन्दुर्विधिवाच्छिष्यानध्यापयामास ॥ ६५ ॥ [ व्रतिनामहिंसादित्रतशा लनां परमहंसानामिन्दुरिव शान्त्यानन्दजनकत्वाचन्द्र इत्यथे: ] [ रूपकमुपमा चालंकार: ] ॥ ६५ ॥ १ घ. स्वीयभा'।