२४० श्रीमच्छकरदिग्विजयः । निजशिष्यहृदब्जभास्वतो गुरुवयस्य सनन्दनादयः ॥ शमपूर्वगुणैरशुश्रुव न्कतिचिच्छिष्यगणेषु मुख्यताम् ।। ६६ ।। स नितरामितराश्रवतो लस नियममदुतमाप्य सनन्दनः । श्रुतनिजश्रुतिकोऽप्यभवत्पुन पिपठिषुर्गहनार्थविवित्सया ।। ६७ ।। अर्द्धद्वभक्तिममुमात्मपदारविन्द द्वे नितान्तदयमानमना मुनीन्द्रः । आम्रत्रायशेखरहस्यनिधानकोश मात्मीयकोशमखिलं त्रिरपाठयक्तम् ॥ ६८ ॥ निजशिप्यहृदयकमलभानोर्गुरुवर्यस्य शिप्यगणेषु मुख्यतां केवित्सनन्दनादय शमादिगुणैरशुश्रुवन्नभ्यस्तवन्तः । वियोगिनी वृत्तम् ॥ ६६ ॥ [ शमेति । शान्तिम भृत्यखिलनिवृत्तिधर्मेरित्यर्थः ] ॥ ६६ ॥ स सनन्दन इतराश्रवत इतरेभ्य आश्रवेभ्यो वचनस्थितेभ्यः शिष्येभ्यः । ‘आश्रवोऽङ्गीकृतौ केशेनान्यवद्वचनास्थितें इति मेदिनी । नितरां लसन्सञ्श्रुता निजश्रुतिः स्ववेदो येन स तथाविधोऽपि गहनार्थस्य विज्ञानेच्छयाऽदुदं नियमं प्राप्य पुनः पठनेनच्छुरभवत् । इतराश्रवतोऽ दुतं लसन्तं नियममाप्येति वा । दुतविलम्बितं वृत्तम् ॥ ६७ ॥ [ श्रुतेति । अभाकतिसकलस्वशाखार्थोऽपीति यावत् । गहनेति । स्वशाखानुक्तत्वेन गूढार्थ जिज्ञासयेत्यर्थः । अत एव । अदुतम् । ‘शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति पातञ्जलसूत्राच्छैौचादिपञ्चविधनियमानां मध्येऽन्तिमस्येश्वरप्रणिधान स्यैवाऽऽरादुपकारकत्वात्पाश्चात्यानां शते पञ्चाशन्यायेन तन्मात्रान्तर्भावाच स्वाभि न्नत्वेनेश्धरध्यानरूपमित्यर्थः ][ पिपठिषुब्रह्ममुहूर्तादिध्यानकालेतरकालावच्छेदेन भूयः पठनेच्छुरिति यावत् । अभवदिति संबन्धः ] ॥ ६७ ॥ आत्मपदारविन्दयुगलेऽद्वंद्वा रागद्वेषादिद्वंद्वविनिर्मुक्ता भक्तिर्यस्य तममुं सनन्दनं नितान्दमत्यन्तं द्यमानं दयां कुर्वाणं मनो यस्य स मुनीन्द्रो वेदान्तरहस्यस्य निधानं स्थापनं तस्य कोशं पात्रमात्मीयग्रन्थं सर्वे त्रिरपाठयत्रिवारं पाठितवान् । वसन्त तिलका वृत्तम् ॥ ६८ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति