[ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ईष्यभराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् ॥ अत्रापगापरतटस्थममु कदाच दाकारयन्निगमशेखरदेशिकेन्द्रः ॥ ६९ ॥ संतारिकाऽनवधिसंस्मृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्तिः ॥ इत्यञ्जसा प्रविशतः सलिलं द्युसिन्धु पद्मान्युदश्चयति तस्य पदे पदे स्म ॥ ७० ॥ पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् । अानन्दविस्मयनिरन्तनिरन्तरोऽसा वाश्लिष्य पद्मपदनामपदं व्यतानीत् ।। ७१ ।। ये तु स्थिताः सदसि तत्वविदां सगर्वाः । आचिक्षिपुः कुमतपाशुपताभिमाना केचिद्विवेकविटपोग्रद्वायमानाः ॥ ७२ ॥ २४१ ईप्यभरेणाऽऽकुलं हृदयं येषामितराश्रवाणां सतां मध्ये वाऽनुपमाममुष्य सन न्दनस्य भकिं पख्यापयन्नभ्रापगाऽऽकाशनदी गङ्गा । अभत्रं मेघे च गगने धातभेदे च काश्चने इति मेदिनी । तस्याः परतटस्थममुं सनन्दनं कदाचिद्वेदान्तदेशिकेन्द्र आहूत वान् ॥ ६९ ॥ [ अथान्येषामन्तेवासिनां तद्विषयकेप्यां प्रशमयितुं कदाचिद्रङ्गायाः परतीरस्थं तमाचार्थः स्वनिकटागमनार्थमाकारयामासेत्याह । ईष्र्येत्यादि ] || ६९ ॥ अनवविसंसारसागरस्य संतारिका गुरुचरणभक्तिर्नदीं किं न संतारयेदपि तु तार येदेवेति विचार्य शीघ्रमेव जलं प्रविशतस्तस्य गुरुभक्तस्य पदे पदे गङ्गा पद्मान्युदश्च यति स्मो नृम्भयामास ॥ ७० ॥ जलरुहेषु क्रमेण पदं विनिवेश्य प्राप्तसमीपं तममुमनुपमभक्तिमानन्दविस्मयाभ्यां निरन्तनिरन्तरोऽत्यन्तं परिपूर्णोऽसावालिङ्गन्य पद्मपादेतिनामपदं व्यतानीद्विस्तारित वान् ॥ ७१ ।। अनवद्यतमामात्मविद्यां पाठयन्तं तं श्रीशंकरं तत्त्वविदां सदसि ये तु केचित्सगर्वा कुमते पाशुपतेऽभिमानो येषां विवेकलक्षणस्य वृक्षस्याग्रेदावाग्विदाचरन्तः स्थिवास्ते चिक्षिपुराक्षेपान्कृतवन्तस्तथाहि कार्यकारणयेगविधिदुःखान्ताः पञ्च पदार्थाः पशुप
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति