पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ श्रीमच्छंकरदिग्विजयः । [ सर्गः ६] किंचैकदेशेन समाश्रयन्ते कात्स्न्येन वा शंभुगुणा विमुक्तान्। पूर्वे तु पूर्वोदितदोषसङ्ग स्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥ ७७ ॥ इत्थं तकैः कुलिशकठिनैः पंडितंमन्यमाना भिद्यत्स्वार्थाः स्मयभरमदं तत्यजुस्तात्रिकास्ते ॥ पक्षाघातैरिव रयभरैस्ताड्यमानाः फणासु क्ष्वेडज्वालां खगकुलपतेः पन्नगाः साभिमानाः ॥ ७८ ॥ गुणानां संक्रमोऽस्त्विति शङ्कते । पद्मगन्ध इति । गन्धसमवायि कमलं सूक्ष्मावयवा त्मना वायुसंयुक्तं सत्तत्र वायौ गन्वधियं यस्माद्दिशति तस्मान्मैवमित्याह । नेति ॥७६॥ [ तत्रेति । यद्यस्मात्तत्र निरुक्तोदाहरणे । गन्धसमवायि समवायसंबन्धेन गन्धवत्प अपरागद्रव्यमेवेत्यर्थः । गन्धाधयं पद्मगन्धबुद्धिं दिशति प्रकाशयति तस्मादेव हेतोर्न गुणत्वहेतोः पद्मगन्धे गुणे साध्याभाववदृत्तित्वलक्षणो व्यभिचार इत्याकूतम् ]॥७६॥ किंच पशुपतिगुणा एकदेशेन विमुक्तान्समाश्रयन्ते किंवा कात्स्न्येन । आद्यपक्षे तु पूर्वोक्तदोषस्य निरवयवगुणानामेकदेशेन संक्रमायोगस्य प्रसक्ति । द्वितीये परमेश्वरेऽ ज्ञतादिः स्यात् । इन्द्रवज्रा वृत्तम् ॥ ७७ ॥ [ ननु भवत्वेवं तार्किकादिरीत्या व्यभि चारवारणमथापि लोके पलादिमानतुलितकस्तूर्याः परिमलस्य पटशतसंक्रमेऽपि काला न्तरेऽपि सुरक्षितायाः पायो गुञ्जामात्रमपि मानह्मासादर्शनान्न सूक्ष्मरजःसंक्रमस्तत्र किंतु गन्धसंक्रम एव । तथा च पुनरपि व्यभिचारताद्वस्थ्यमेवेति बुवाणं पाशुपतं प्रति तुष्यतु दुर्जन इति न्यायेन यथाकथंचिन्निरवयवानामपि गुणानामन्यत्र संक्रमम ङ्गीकृत्यापि निराकर्तु विकल्प्य पृच्छति । किंचेतीन्द्रवत्रया ] [पूर्वोदितेत्ययमाशयः । वस्तुवृत्तविचारे निरुक्तकस्तूर्युदाहरणेऽपि सूक्ष्मतमतत्रसरेणुसंक्रमेऽपि न तत्परिमाण हासः । अत एव पटशातेऽपि नैकट्यतारतम्येन परिमलतारतम्योपलम्भ । एवं च नेोक्तव्यभिचारावसर इति निरवयवानां गुणानामन्यत्रासंक्रमणं प्रागुक्तो दोषस्तदवस्थ एवेति ] || ७७ ॥ इत्थं वत्रवत्कठिनैस्तकेंर्मिद्यन्भेदं गच्छन्स्वाभिमतोऽथे येषां तेपण्डितंमन्यमाना स्तात्रिकाः पाशुपताः स्मयस्यातिशयेन यो मदस्तं तत्यज । खगकुलपतेर्गरुत्मतो रयस्य वेगस्यातिशयो येषु तैः पक्षाघातैः फणासु ताड्यमानाः साभिमानाः सप यथा क्ष्वेडज्वालां विषज्वालां त्यजन्ति तद्वत् ‘क्ष्वेडस्तु गरलं विषम्' इत्यमरः । मन्दाक्रान्ता वृत्तम् ॥ ७८ ॥ १ क. ख. ग. "यन्ति किं'। २ क. रेऽज्ञानादिः ।