पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । [ सर्गः ६] कामं कामकिरातकार्मुकलतापर्यायनिर्यातया नाराचच्छटया विपाटितमनोधैर्येर्धिया कल्पितान् ॥ आचार्याननवर्यनिर्यदभिदासिद्धान्तश्रुद्धान्तरो धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥ ९१ ॥ सुधास्पन्दाहंताविजयिभगवत्पादरचना समस्कन्धान्ग्रन्थान्रचयति निबद्धा यदि तदा । विशङ्कां भङ्गानां मृडमुकुटशृङ्गाटसरितः कृतौ तुल्या कुल्या नियतमुपशल्यादृतगतिः ॥ ९२ ॥ श्रेयस्करेऽतो भूष्यतमेऽतिपूज्ये ] [ यतो दुरन्वयगिरा दुष्टान्वयशालिन्या वाण्या आश्लिष्टा इति छेदः । आलिङ्गिता इत्यर्थः । अतो गुणैः प्रसादादिवाणीसामान्य गुणैः ] [ प्रतीपविशेषादिरलंकारः ] ॥ ९० ॥ कामं यथेष्टं कामकिरातस्य धनुर्लतातः पर्यायेण क्रमेणापर्यायेणैकदेव वा निर्या तया निःसृतया नाराचाख्येघूणां छटया समूहेन विपाटितं मनोवैर्यं येषां तैर्धिया स्वबुद्धया कल्पितान्विरसानबन्वापहान्बन्धनाशासमर्थान्ग्रन्थानाचार्याननवर्यान्निर्यता निर्गतेनाभिदाििसद्धान्तेन शुद्धांऽन्तःकरणो धीरो नानुसरीसरीत्यनुसरणं नैव करोति ॥ ९१ ॥ [ धिया स्वबुद्धयुत्पेक्षयैव । एतेन तत्रासांप्रदायिकत्वं ध्वन्यते ] [ परि करादिरलंकारः । ] ॥ ९१ ॥ किंच सुधास्पन्दस्यामृतप्रवाहस्याहंताया विजयिनी या भगवत्पादरचना तत्सम स्कन्धान्समपर्यायांस्तुल्यप्रकारान्ग्रन्थान्निबद्धा ग्रन्थकर्ता यदि रचयति तदा ‘ग्रामान्त मुपशाल्यं स्यात्' इत्यमरान्नियतमुपशल्ये ग्रामान्त अनादृता गतिर्यस्याः सा कुल्याऽल्पा कृत्रिमा सरिन्मृडस्य शिवस्य मुकुटमेव शृङ्गाटश्चतुष्पथस्तस्य सरितो गङ्गाया भङ्गानां तरङ्गाणां कृतौ करणे तुल्या इति विशाङ्कामपि रचयति ॥ ९२ ॥[ सुधेति । सुधाया अमृतस्य यः स्पन्दः प्रवाहः ‘स्पाद किंचिचलने' इति स्मरणात् । तस्य याऽहंता शुद्धत्वमधुरत्वाद्याधिक्याहंकृतिस्तस्या जयिनी पराजयकत्र्र्येतादृशी या भगवत्पादर चना श्रीमच्छंकराचार्यविरचितग्रन्थपद्धतिस्तया समस्तुल्यस्कन्ध स्कन्धः स्यानृपतावंसे संपरायसमृहयोः' इति मेदिन्याः पदसमूहो येषां ते तथा तानित्यर्थः । एतेन यथाकथंचिच्छब्दसं घत्वसाम्येऽप्यमृतावदातत्वादिभाष्यधर्मवैधुर्यमन्यदीयग्रन्थेषु ध्वन्यते ] [ यथा गङ्गातरङ्गरचने कुल्यायाः कालत्रयेऽपि नैव सामथ्र्य तथा श्रीमद्भगवत्पादविर चितभाष्यादिसदृशग्रन्थकरणे जीवकोटिनिविष्टकवेनैव पाटवमिति भावः । अत्र मिथ्याध्यवसितिरलंकारः । तदुक्तम् ।