पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ श्रीमच्छकरदिग्विजयः । गिररां धारा कल्पद्रुमकुसुमधारा परगुरो स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।। अभङ्गव्यङ्गयौघः सुरसुरभिदुग्धोर्मिसहभू र्दिवं भव्यैः काव्यैः सृजति विदुषां शंकरगुरुः ॥ ९४ ॥ वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था व्यङ्गयं भङ्गयन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः । मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसंदोहकन्दः ॥ ९५ ॥ [ सर्गः ६] परगुरोः श्रीशंकरस्य गिरां धारा कल्पवृक्षकुसुमानां धारा तस्या वाराया अर्थपङ्गि श्चिन्तामणिलक्षणाङ्गनायाः किरणलक्षणाया वेण्याः केशबन्धस्य गुणनिका ऋत्यरूपा। भवेद्रुणनिकानृत्ये शून्याङ्के पाठनिश्चित इति विश्वप्रकाशः । अभङ्गो यो व्यङ्गयानां व्यञ्जनावृत्या गम्यानामोघ समुदौयोऽभङ्गानां वङ्गन्यानामोघो वा । सुरसुरभिदुग्वोर्मिसहभूर्देवकामधेनुदुग्धतरङ्ग सदृशोऽतो विदुषां शंकरगुरुर्भव्यैः काव्यैर्दिवं सृजति ॥ ९४ ॥ [ परेति । श्रीशंक राचार्यस्य ] कल्पद्रुमेति । सुरशाखिसुमनःसरणिरितियावत् । अस्तीत्यार्थिकं सर्वत्र । रुपककाव्यलिङ्गादयोऽलंकाराः ] ॥ ९४ ।। येषु वाचा वाचो मोचाफलाभाः कदलीफलतुल्या येषु च ते तासां वाचामर्था श्रमशमनविधौ समर्था येषु च किमप्यनिर्वाच्यं भङ्गयन्तरं विवक्षितरूपादपि चारुतर रूपान्तरास्पदं तत्प्रसिद्धं व्यङ्गन्यं येषु च सुधावन्माधुरीसाधुरीतिस्तानि काव्यलक्ष णानि भव्यानि गव्यानि गोदुग्धानि गाढमत्यन्तं धन्यानि मन्ये येषु काव्येष्वेक श्लोकोऽपि कविजनानामानन्दसमूहस्य कन्दो मूलम्। स्रग्धरा वृत्तम् ॥९५॥ [मोचेति

  • रम्भा मोचांशुमत्फला ' इत्यमरात्कदलीफलसदृशबहिःसुवर्णत्वपूर्वकान्तःसुरस

इत्यर्थः । साध्विति । साध्वी रम्या चासँौ रीतिश्चेति तथा । रीतिसामान्यलक्षण तद्वेदाश्चोक्ता मदीये साहित्यसारे गुणरत्ने । तत्तद्रसार्हपदसंघटनारीतिरीरिता । वैदर्भ च तथा गौडी पाञ्चाली चेति तत्क्रमातू' इति । तत्क्रमान्माधुर्यादिव्यङ्गन्यगुणक्रमेणेत्यर्थ इति सरसामोदाख्यतट्टीका विस्तरस्तु तयोरेव द्रष्टव्यः । सुधेति । सुधेव माधुरी यस्याः सा तथाऽस्तीत्यर्थ प्रशमीति । प्रकृष्टः फलीभूतः शम १ घ. 'भङ्गश्चासैौ व्यङ्गया"। २ घ. दायश्चाभ'।