पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६ ] धनपतिसूरिकृतांडण्डिमाख्यटीकासंवलितः । स भाष्यचन्द्रो मुनिदुग्धसिन्धो रुत्थाय दास्यन्नमृतं बुधेभ्यः । विधूय गोभिः कुमतान्धकारा नतर्पयद्विपमनश्चकोरान् ॥ ९९ ॥ अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिकृतदुःसपत्नैः । विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः ॥ १०० ॥ सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती । प्रत्यथ्र्युलूकान्प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानोः ॥ १०१ ॥ स भाष्यलक्षणश्चन्द्रो मुनिलक्षणात्क्षीरसमुद्रादुत्थाय पण्डितलक्षणेभ्यो देवेभ्यो मोक्षलक्षणममृतं दास्यन्वाग्लक्षणैः किरणैः कुमतलक्षणानन्धकारान्प्रकम्प्य दूरीकृत्य विप्राणां मुमुक्षुब्राह्मणानां मनोलक्षणांश्चकोरानतर्पयत् । उपेन्द्रवत्रा वृत्तम् ॥ ९९ ॥ [ अमृतं कैवल्यम् । पक्षे पीयूषम् । बुधेभ्यः पण्डितेभ्यः पक्षे नामैकदेशे नामग्रहणा द्विबुधशाब्दितदेवेभ्य इत्यर्थः । गोभिर्वाग्भिः पक्षे किरणैः । ‘गीः स्वर्गपशुवाग्वत्रादङ्नेत्रघृणिभूजले ' इत्यमरः ] || ९९ ॥ इदानीं भाष्यं सुधारूपेण वर्णयति । यतिलक्षणस्य चन्द्रस्य भाष्यलक्षणा सुधाऽ नादिभूतवेदवाग्लक्षणात्समुद्रादुत्थिता धिक्कृता दुष्टशत्रवः कामक्रोधाद्य आन्तरा बाह्याश्च वादिनो यैस्तैः पण्डितलक्षणैर्देवैः सेव्या पुनश्च जरामरणरहितत्वं संपादयन्ती विदिद्युतेऽतिशयेन बभासे ॥ १०० ॥ [ अनादीति । ‘अनादिवाग्वाचा विरूपनित्य या' इति श्रुतेः अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा इति स्मृतेश्च वेदवाणी सैव सागर इत्यादि ] ॥ १०० ।। इदानीं भाष्यं भानुमभारूपेण वर्णयति । सतां हृलक्षणानि कमलानि विकासयन्ती गाढानि बाह्यमभाभिर्वेिदारयितुमशक्यान्यज्ञानलक्षणानि तमांसि विदारयन्ती प्रतिवादि लक्षणानुलूकान्पकर्षेण विलापयन्ती यतिश्रेष्ठलक्षणस्य सूर्यस्य भाष्यलक्षणा पभाऽभा २५५ १ क. ख. ग. 'यं प्र'।