पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छठंकरदिग्विजयः । विलोक्य वाचंयमसार्वभौमं स शंकरोऽशङ्गितदर्शनं तम् ।। गुरुं गुरूणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥ २१ ॥ अत्यादराच्छात्रगणैः सहासौ प्रत्युद्वतस्तचरणा प्रणम्य | यत्यग्रगामी विनयी प्रहृष्यन्नि त्यब्रवीत्सत्यवतीसुतं सः ॥ २२ ॥ द्वैपायन स्वागतमस्तु तुभ्यं दृष्टा भवन्तं चरिता मयाऽर्थाः ॥ युक्तं तदेतत्वयि सर्वकालं परोपकारव्रतदीक्षितत्वात् ॥ २३ ॥ [ सर्गः ७ ] तं कटाक्षेणाभिवीक्षालक्षणयाऽमृतधारया निवारितोऽशेषजनानामाध्यात्मिकादिरूपोऽ नुतापो येन तं सर्वो जनानुतापो येनेति वा ॥ २० ॥ वाचंयमानां नियात्रतसर्वेन्द्रियाणां मुनीनां राजानमशङ्कितमसंभावितं दर्शनं यस्य तं गुरूणामपि गुरुं विलोक्य महृष्टचेताः स शंकरः शिष्यगणैः संयुक्तः प्रत्युद्ययौ ॥ २१ ॥ [ प्रत्युद्ययावभिमुखं जगामेत्यर्थः ] ॥ २१ ॥ अत्यादराच्छिष्यगणैः सह प्रत्युद्रतोऽसौ शंकरस्तस्य व्यासस्य चरणौ प्रणम्य यत्यग्रगामी विनययुक्तः मद्वैष्यन्सन्स श्रीशंकरः सत्यवत्रीपुत्रमितीदमुवाच । इन्द्र वज्रा वृत्तम् ॥ २२ ॥ [ यद्यपि नैष्ठिकब्रह्मचारिणं व्यासं प्रति संन्यासिनो भाष्यका रस्य मणत्यनौचित्यमेव तथाऽपि ‘मुनीनामप्यहं व्यासः' इति को वाऽन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्’ इति च स्मृतेर्विष्ण्ववतारत्वेनेश्वरविया तदैौचित्यमेवेति भावः ] ॥ २२ ॥ यदुवाच तदाह । हे द्वैपायन स्वागतं तुभ्यमस्तु । भवन्तं दृष्टा मया सर्वे पुमर्था श्वरितास्तदेतदस्मदाँदेः सर्वार्थसंपादकत्वं त्वयि युक्तम् । तत्र हेतुमाह । सर्वेषु कालेषु परोपकारत्रते दीक्षितत्वात् । उपजातिवृत्तम् ॥ २३ ॥ [ वरिताः कृताः संपा दिता इति यावत् ] ॥ २३ ॥ १ क. ह्यष्ट इत्य'। २. क. हृष्टः स श्री'। ३ ख. ग. घ. 'दादिस'। ४ ग. "दनं त्व'।