पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मुने पुराणानि दशाष्ट साक्षा च्छूत्यर्थगर्भाणि सुदुष्कराणि । कृतानि पद्यद्वयमत्र कर्तु को नाम शक्रोति सुसंगतार्थम् ॥ २४ ॥ वेदार्णवं व्यतियुतं व्यदधाश्चनुर्धा शाखामभेदनवशादपि तान्विभक्तान् ॥ मन्दाः कलौ क्षितिसुरा जनितार एते वेदान्ग्रहीतुमलसा इति चिन्तयित्वा ॥ २५ ॥ एष्यद्विजानासि भवन्तमर्थ गतं च सर्वे न न वेत्सि यत्तत् ॥ नो चेत्कथं भूतभवद्भविष्य त्कथाप्रबन्धान्रचयेरजानन् ॥ २६ ॥ २६७ परोपकारव्रतिना त्वया कृतस्य लेशोऽप्यन्येन कर्तुमशक्य इत्याशयेनाऽऽह । हे मुने । ‘ब्राह्म पाइमं वैष्णवं च शैवं लैङ्ग सगारुडम् । नारदीयं भागवतमाझेयं स्कान्दसंज्ञितम् । भविष्यं ब्रह्मवैवर्त मार्कण्डेयं सवामनम् । वाराहं मात्स्यकौम्ये च ब्रह्माण्डाख्यमिति त्रिषट् । इत्युक्तान्यष्टादश पुराणानि साक्षाछूत्यर्थगर्भाण्यन्यैः सुदुष्कराणि त्वया कृतान्य त्रास्मिलेॉके सुसंगतार्थं श्लोकद्वयमपि कर्तु कः शक्रोति । उपजातिवृत्तम् ॥ २४ ॥ किंच व्यतियुतं व्यामिश्रितं वेदसमुद्रमृग्यजुःसामाथर्वणलक्षणैश्चतुर्भिः प्रकारैर्युक्तं त्वं व्यदधाः कृतवानासि कलौ मन्दपज्ञा एते ब्राह्मणा वेदान्ग्रहीतुमलसा जनितार उत्पत्स्यन्त इति चिन्तयित्वा शाखापभेदनवशादपि तान्वेदान्विभक्तान्व्यधा विहित वानासि । वसन्ततिलका वृत्तम् ॥ २५ ॥ एष्यद्भविष्यद्विजानासि तथा भवन्तं वर्तमानं गतमतीतं च सर्वे जानासि यत्वं न वेत्सि न जानासि तन्नास्त्येव नो चेद्यदि नैव जानासि तहजानन्भूतभवद्भविष्यत्कथा मबन्धान्कथं रचयेः कथं रचितवानसि । भारूयानकी वृत्तम् ॥ २६ ॥