पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ श्रीमच्छकरदिग्विजयः । रोषानुषङ्गकलयाऽपि मुदूरमुक्तो धत्सेऽधिमानसमहो सकलाः कलाश्च । सर्वात्मना गिरिजयोपहितस्वरूपः शक्यो न वर्णपितुमदुतशंकरस्त्वम् ॥ ४७ ॥ व्याख्याप्यसंख्यैः कविभिः पुरैत द्याख्यास्यते कैश्चिदितःपरं च । भवानिवास्मद्धदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥ ४८ ॥ व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान्विदुषो विजित्य । ग्रन्थान्भुवि ख्यापय सानुबन्धा नहं गमिष्यामि यथाभिलाषम् ॥ ४९ ॥ [ सर्गः ७ ] यत्तु धत्स इत्याद्युक्तं तत्राऽऽह । अदुतशंकरस्त्वं वर्णयितुं न शक्यः । भद्रुतत्वं दर्शयति । रोषस्य संबन्धलेशेनापि रहितः स तु रोषानुषङ्गेण मुक्तो न भवत्येवंभूतोऽ प्यधिमानसं मनासि सकला अपि कला धत्से स तु शिरस्येकामेव शशिकलां बिभर्ति पुनश्च सर्वात्मना सर्वात्मभावेन गिरिजया वेदान्तवाचि जातया ब्रह्मविद्यालक्षणया पार्वत्यां वाचि जयेन वा युक्तं स्वरूपं यस्य स त्वर्धशरीरेण पार्वत्या युक्तस्वरूप इत्यर्थः ।॥ ४७ ।। यदुक्त लज्जासंपादकं कर्म कृत्वाऽपि धृष्टतयाऽहं न लज्ज इति तत्राऽऽह । पूर्व मेतन्मदीयं सूत्रजातमसंख्यातैः कविभेिव्यरूयातामित:परं च कैश्चित्कविभिरेतद्यारूया स्यते परंतु भवानिव निगृढमस्मदभिप्रायं विज्ञातुं किमेते व्याख्यातारोऽलं समर्था नैव शाक्ताः सर्वज्ञस्य तवैतद्विज्ञाने शक्तिर्न त्वन्यस्याल्पज्ञस्येत्याशयवानाह । हे सर्वज्ञेति । उपजातिवृत्तम् ॥ ४८ ॥ एवं सूत्रभाष्यं स्तुत्वा श्रुतिभाष्यकरणादौ प्रेरयन्स्वगमनमामत्रयति । व्याख्या हीति । वेदान्तविद्यामुपनिषदं विभेदवादान्पण्डितान्विजित्य विषयसंबन्वप्रयोजनाधि कार्याख्यानुबन्धयुक्तान्ग्रन्थानारूयापय । भाख्यानकी वृत्तम् ॥ ४९ ॥ १ क. 'या यु'। २ ग. ‘वैव त'।