पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इत्युक्तवन्तं तमसाववोच त्कृतानि भाष्याण्यपि पाठितानि ॥ ध्वस्तानि सम्यकुमतानि धैर्या दितः परं किं करणीयमस्ति ।॥ ५० ॥ मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्वत्सल संनिधानम् । चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेपम् ॥ ५१ ॥ इतीदमाकण्र्य वचो विचिन्त्य स शकर माह कुरुष्व मवम् ।। अनिर्जिताः सन्ति वसुंधरायां त्वया बुधाः केचिदुदारविद्याः ॥ ५२ ॥ जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ॥ नो चेन्मुमुक्षा भुवि दुर्लभा स्या त्स्थितिर्यथा मातृधुतस्य बाल्ये ॥ ५३ ॥ २७५ इत्युक्तवन्तं तं श्रीव्यासमसौ श्रीशंकरोऽवोचदवदत् । त्वदाज्ञा मया पूर्वमेव संपादितेति दर्शयति । निगमान्तभाष्याणि कृतानि पाठितानि च पुनश्च कुमतानि धैर्यात्सम्यङ्नाशितानि तस्मादितः परं किंचिदपि कर्तव्यं नास्ति ॥ ५० ॥ यत एवमतो हे सद्वत्सल घटिकाद्वयं मणिकर्णिकायां सामीप्यं विवेहयेतदर्थमह विराद्यत्नं करोमि परमायुषस्तव समीपेऽद्य यावद्धेयं वपुः शरीरं त्यजामि तावादे त्यर्थः । हे परमाऽऽयुषोऽन्ते समाप्ताविति वा । उपेन्द्रवज्रा वृत्तम् ॥ ५१ ॥ ५२ ॥ [ आयुषोऽन्ते षोडशवर्षात्मकायुःसमाप्तिक्षणे । परमत्यन्तं हेयं त्याज्यम् । एतादृ शाम् । वपुः शरीरम् ] ॥ ५१ ॥ [ ततः किमुतं व्यासेनेत्यत्राऽऽह । इतीदमि त्यादे पञ्चभिः । स वेदव्यासः । इति प्रोक्तप्रकारम् । इदं प्रकृतम् । वचो वाक्यम् । अभाकण्यै श्रुत्वा । अथ विचिन्त्य विचार्य । त्वमेवं मा कुरुष्वति शंकरं भाष्यकारं माहृत्यन्वयः । तत्र हेतु । अनिर्जिता इत्याद्युक्तराधेन । त्वयाऽनिर्जिता इति संबन्धः । सन्तु किं तैः क्षुद्वैस्तत्राऽऽह । उदारेति । अतस्तदुपेक्षाऽनुचिवैवेति भावः ] ।। ५२ ॥ तेषामुदारविद्यानां जयाय हे स्थिरधीयैद्यपि तत्पराभवहेतुभूता ग्रन्थास्त्वया रचि तास्तथाऽपि कति वर्षाणि त्वयाऽपि वस्तव्यमेव । विपक्षे दोषमाह । नो चेदिति ।