पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०६ प्रसन्नगम्भीरभवत्प्रणीत प्रबन्धसंदर्भभवः प्रहर्षः ॥ प्रोत्साहयत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥ ५४ ॥ अष्टौ वयांसि विधिना तव वत्स दत्ता न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ॥ भूयोऽपि षोडश भवन्तु भवाज्ञया ते भूयाच भाष्यमिदमारविचन्द्रतारम् ॥ ५५ ॥ त्वमायुषाऽनेन विरोधिवादि गर्वाडुरोन्मूलनजागरुकैः ॥ वाक्यैः कुरुष्वोज्झितभेदबुद्धी नद्वैतविद्यापरिपन्थिनोऽन्यानू ॥ ५६ ॥ इतीरयन्तं प्रति वाचमूचे स शंकरः पावितसर्वलोकः ।। श्रीमच्छंकरदिग्विजयः । भाष्यं प्रचारं भुवि यातु विद्वन् ॥ ५७ ॥ १ यथा बाल्ये मातृरहितस्य स्थितिर्तुर्लभा तद्वन्मातृवद्रक्षकेण त्वया रहिता मोक्षेच्छा दुर्लभा स्यात् । उपजातिवृत्तम् ॥ ५३ ॥ आयुषः समाप्ति विचार्य वरदानायाऽऽह । हे आत्मविदामृषीणां वरेण्य प्रसन्न गम्भीराणां भवत्प्रणीतानां प्रबन्धानां संदर्भवो जन्म यस्य स महर्षस्तुभ्यं वरं प्रदातुं मां प्रोत्साहयति ॥ ५४ ॥ वयांसि वर्षाणि भवस्य शिवस्याऽऽज्ञया । वरान्तरं ददाति । च पुनरिदं भाष्यमा रविचन्द्रतारं भूयाद्यावत्सूर्यादिस्थितिस्तावद्भवत्वित्यर्थः । वसन्ततिलका वृत्तम् ॥५५॥ [ सुधियाऽर्जितानि । विवेकेन समुपागतागस्त्यादिमुनीनां वन्दनविन्यासै संपाद्य संपा दितानीत्यर्थः ] ॥ ५५ ॥ ननु षोडशवर्षपरिमितेनाऽऽयुषा मया किं कर्तव्यमित्याकाङ्क्षायामाह । त्वमनेनाऽऽ युषाऽन्यानद्वैतविद्यापरिपन्थिनः स्ववाक्यैस्त्यक्तभेदमतीन्कुरुष्व। वाक्यानि विशिनष्टि । विरोधिवादिनां गर्वस्य समूलोच्छेदने जागरूकैः सावधानैः । उपजातिवृत्तम् ॥ ५६ ॥ इत्येवं कथनं कुर्वन्तं वेदव्यासं प्रति पवित्रितलोकः स शैकैरो वाचमुवाच यद्यपि [ मगेः " ] क. ग. 'सं प'। २ क. ग. "करः प्रव वनमु'।